OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, March 19, 2017

लोके इदंप्रथमतया फ्लूरसेन्ट् मण्डूकः आमसोण् देशे दृष्टः। 
अन्धकारेsपि प्रकाशमानानि फ्लूरसेन्ट्  वर्ण- फलकानि वयम् अपश्याम खलु! फ्लूरसेन्द् दीपानामपि उपयोगं वयं कुर्मः। एवं प्रकाशमानाः मण्डूकाः इदंप्रथमतया गवेषकैः दृष्टाः। अर्जन्टीनायाम् आमसोण्  वर्षकानने  एव बर्णाडिनो रिवाडविय नाचुरल् सयन्स् संस्थायाः गवेषकैः एते मण्डूका: दृष्टाः। अस्मिन् प्रदेशे सामान्यभूतानां पृषन्मण्डूकानां विशेषवर्णघटकमधिकृत्य कृते गवेषणे यादृच्छिकतया एव अन्धकारे राजमानस्य विशेषतामपश्यन्। प्रकाशं वा अन्यवैद्युतकान्तिकतरंगान् वा आगीर्य अधिकतरंगदैर्घ्यप्रकाशस्य बहिर्निस्सरणप्रतिभासः एव फ्लूरसेन्स् इत्युच्यते। स्थल जीविषु एषा विशेषता विरलातया एव दृश्यते। सामान्यप्रकाशे अभास्वरकपिशवर्णेन  रक्तपृषदा च युक्तत्वचः एते मण्डूकाः अल्ट्रावयलट् प्रकाशे भास्वरहरितवर्णैः दृश्यन्ते। एतेषां मण्डूकानां बहिर्निस्सरितस्रवाः एव फ्लूरसेन्ट् प्रतिभासकारणमिति गवेषकै: दृष्टम्। Proceeding of Natural national academy of science इति मासिक्याः नूतनपुटे एव एतद्विषयपठनं  प्रसिद्धीकृतं दृश्यते।