OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, March 26, 2017

 एस् एस् एल् सि -गणित परीक्षा निरस्ता , पुनः  ३०तमे दिनाङ्के। 
अनन्तपुरी > गते विंशद्दिनाङ्के संवृत्ता केरलस्य दशमकक्ष्यायाः गणितमूल्यनिर्णयः सर्वकारेण निरस्ता। न केवलं प्रश्नपत्रिकायाः प्रामाण्यराहित्यं किन्तु प्रश्नपत्रिकानिर्माणे संवृत्तः व्यतिक्रमश्च परीक्षानिरासस्य हेतुः भवति।
    प्रश्नपत्रिकानिर्माणाय उत्तरदायित्वं विहितः अध्यापकः स्वसुहृदः अध्यापकात् प्रश्नान् स्वीकृतवान्। स सुहृदपि मलबार् एज्यूक्केषन् एजन्सि इति संस्थया प्रसिद्धीकृतस्य मार्गदर्शकग्रन्थस्य कृते अपि एतान् प्रश्नान् दत्तवानासीत्। किञ्च एते प्रश्नाः कस्यांचित् वार्तापत्रिकायामपि दृष्टाः। अतः प्रश्नपरिस्रवणमभवदिति कारणेन कारिता परीक्षा निरस्ता।


सन्तोष् ट्रोफी - वंग-गोवा अन्तिमस्पर्धा अद्य। 
पनजी >एकसप्ततितमायाः सन्तोष् ट्रोफि पादकन्दुकक्रीडायाः अन्तिमचरणस्पर्धायाम् अद्य वंगराज्यं गोवाराज्येन सह स्पर्धिष्यते। पनजिसमीपे जि एम् जि बोम्बालिन् क्रीडाङ्कणे सायं षड्वादने स्पर्धा भविष्यति।
      वंगः इतःपर्यन्तम् एकत्रिंशद्वारं विजेता अभवत्। द्वादशसु अन्तिमस्पर्धासु पराजितश्च। पञ्चवारं प्राप्तकिरीटं गोवादलं सप्तवारं द्वितीयस्थानम् अलङ्कृतवत्।