OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, March 30, 2017

सुवर्णविक्रयकाणामुपरि दृढनियन्त्रणम् आयाति।
नवदिल्ली>सुवर्णविक्रयणे नियन्त्रणम्। एप्रिल् एकदिनाड्कादारभ्य सुवर्ण विक्रयणे दशसहस्र रुप्यकाणि एव  रुप्यकपत्ररूपेण यच्छति। पूर्वं तत् विंशति सहस्रमासीत् । तत्सम्बन्धी नीतिः आगामिनि मासे प्रबली भवति। दशसहस्रधिकं धनं व्यक्तेः आर्थालये एव प्राप्स्यते। एवं न करोति चेत् तदनधिकृतमिति निकुति विभागः परामृशति। केन्द्रसर्वकारस्य एतत् निर्णयं मुख्यतया ग्रामीणक्षेत्रमेव बाधते। प्रायशः बहुत्र ग्रामेषु तादृशसौविध्यानि न सन्तीति तस्य हेतुः।

 सीमासुरक्षायै स्त्रीशक्तिः च। सीमासुरक्षासेनायां प्रथमवनिताकार्यकर्त्री तनुश्री।
ग्वालियार् > सीमासुरक्षासेनायां एकपञ्चाशत् वर्षाणाम् इतिहासे प्रथमवनिताकार्यकर्त्री रूपेण पञ्चविंशति आयुयुक्ता तनुश्री परीख् नियुक्ता।
 तनुश्री परीख् राजस्थान राज्यस्य बिक्कानीर स्वदेशी अस्ति।२०१३ आरभ्य सेनायां स्त्रीणः सन्ति चेदपि उन्नतपदव्यां प्रथमतया एव स्रीणां प्रवेशः।
असिस्टण्ट् कमाण्डर पदे नियुक्ता तनुश्री परीख् पञ्जाबराज्ये पाक् सीमायां सेनागणम् नेष्यति।