OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, March 29, 2017

स्त्रीणां रात्रौ उद्योगे निवेश: मास्तु इति ऐ टी स्थापनानि प्रति कर्णाटकसर्वकारा:।।
 बङ्गलूरु >रात्रिकालान्तरेषु स्त्रिय:उद्योगस्था: उद्योगकार्येषु न योजयेयुरिति  ऐ टी बयोटेक्  स्थापनानि प्रति  कर्णाटकनियमसभासमित्या:निर्देश:। स्त्रीणां सुरक्षां स्वकार्यतां च संरक्षितुमेव अयं  निर्देश: इति नियमसभासमित्या सूचितम् । ऐ टी  बी टी स्थापनानि स्त्रिय:रात्रौ उद्योगेषु योजयन्ति इत्यत्र  सहमति:नास्ति तथा च ता:यावच्छीघ्रं दैनिक मध्यन्दिनकालान्तरेषु योजयेयुरिति च सभासमित्या: निर्देश: । नियमसभायां वनिताशिशुक्षेमसमित्या समर्पिते आवेदनपत्रे एव  निर्देशोयं वर्तते । एन् ए हारिसस्य नेतृत्वे वर्तमानसमित्या निर्देशोयं पुरस्कृत: सभायाम् । एतादृशसंस्थासु रात्रिकालान्तरे पुरुषोद्योगस्था: नियोजनीया:इत्यपि समित्या निर्दिश्यते । इनफोसिस्   बयोकोण्   संस्थासु सेवनरतैस्सह २०१६ सेप्टम्बर्मासे समित्या चर्चा कृता । तदाधारीकृत्यैव आवेदनपत्रं सज्जीकृतमपि । किन्तु गतवर्षे सर्वकारै:स्वीकृतचरित्रपरं  निर्णयम् उल्लङ्घ्यते अयमावेदनम् । रात्रिकालोद्योगस्थानां स्त्रीणामुपरि  विद्यमाननियन्त्रणं व्याक्षिप्तमासीत् गतवर्षे सर्वकारै: उद्योगमण्डलेषु स्त्रीपुरुषसमत्वं प्रदीयादिति उद्देश्येन एव तथा एकं पदं सर्वकारै: विन्यस्तमपि ।

मातुः सम्पत् असाधुरुप्यकपत्राणां विनिमयाय प्रधानमन्त्रिणे पुत्राणाम् आवेदनम्।
जयपुरम्>बन्धितात् गृहात् प्राप्तानि ९६,५०० रुप्यकस्य असाधुरुप्यकपत्राणां विनिमयाय साहाय्यम् अभ्यर्थ्य अनाथबालकानाम् आवेदनं प्रधानमन्त्रिणे प्रदत्तम्। कोट्टा जिल्लायां सरावाडा ग्रामे मृतायाः मातुः उपधानात् रुप्यकाणि प्राप्तानि।
 मातापित्रोः मरणानन्तरं बान्धवैः तिरस्कृतान् बालान् कोट्टायां सर्वकारस्य अनाथकेन्द्रे ग्रामीणाः अनयन्। अस्मिन् मासस्य सप्तमे दिने जेष्ठे बालके गृहस्य उद्घाटनं कृते सति रुप्यकाणि प्राप्तानि। पूर्णतया सहस्र पञ्चशतानां पत्राणि आसन्।
विनिमयाय रिसर्ववित्तकोशाय आवेदनं दत्तं चेदपि किमपि फलं नासीत्   अत एव प्रधानमन्त्रिणः साहाय्याय पत्रं प्रेषितम्।