OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, March 28, 2017

 मलप्पुरम् उपनिर्वाचनव्यग्रतायाम् , स्थानाशिनः नव।
मलप्पुरम् > केरले मलप्पुरं लोकसभानियोजकक्षेत्रे उपनिर्वाचनव्यग्रता आरब्धा। ई. अहम्मदवर्यस्य निर्याणेन प्रख्यापिते उपनिर्वाचने नामनिर्देशपत्रिकाणां सूक्ष्मपरिशोधनायां समाप्तायां नवानां स्थानाशिनां पत्रिकाः  अङ्गीकृताः।
      तत्र त्रयः प्रमुखाः वर्तन्ते। यू डि एफ् दलीयः मुस्लींलीग् दलप्रतिनिधिः पी के कुञ्ञालिक्कुट्टिः , एल् डि एफ्  सख्यस्य सि पि एम् प्रतिनिधिः एम् बि फैसलः , एन् डि ए सख्यप्रतिनिधिः भाजपादलीयः एन् श्रीप्रकाशश्च परस्परं स्पर्धिष्यमाणाः प्रमुखाः।

     एप्रिल् मासस्य द्वादशे दिनाङ्के एव निर्वाचनं भविष्यति।
सन्तोष् ट्रोफी वंगेन प्राप्तम्।
पनजी> एकसप्ततितमः सन्तोष् ट्रोफी नामकः पादकन्दुकक्रीडाविजयस्तम्भः वंगराज्येन प्राप्तः। प्रतियोगिनं गोवादलं प्रत्युत्तररहितेन एकेनैव कन्दुकलक्ष्येन पराजित्य विजयस्तम्भे वंगदलस्य  द्वात्रिंशत्तमं चुम्बनार्पणम्! निश्चिते समये दलद्वयेनापि विना लक्ष्यकन्दुकं समस्थितौ जाते स्पर्धा अधिकसमयं समुपगता। मत्सरसमापनाय एकनिमिषे अवशिष्टे मन्वीरसिंहस्य लक्ष्यकन्दुकेन वंगराज्यं विजयतीरं संप्राप।