सुरक्षा भीषां प्रतिरोद्धुं भारत-अमेरिका सौहृदं दृढं जायते।
वाषिड्टण् > सुरक्षा क्षेत्रे भारत-अमेरिका सौहृदं दृढं जायते।भीकरकार्याणि तथा समुद्रेण आगताः भीषाः च प्रतिरोद्धुं द्वयोः राष्ट्रयोः मध्ये धारणा सञ्जाता। भारतस्य राष्ट्रीयसुरक्षा उपदेष्टा अजित् डोवेल् अमेरिकायाः उन्नतप्रतिरोध कार्यकर्तृभिः जातायां चर्चायाम् अस्ति निर्णयम्। चर्चां इयम् अतीव फलप्रदमासीदिति भारतस्य प्रतिनिधः अवदत्। राष्ट्रपतेः डोणाल्ट् ट्रंपस्य शासनकाले द्वतीयवारमस्ति डोवलस्य अमेरिका सन्दर्शनम्।भारतस्य आर्थिकपरिष्काराः तथा पद्धत्यः चर्चायाम् आगताः इति सूचना अस्ति। भारतस्य विकासशीलौ आर्थिकस्थितौ अमेरिकायाः रुचिः चर्चायाम् अस्यां व्यक्तीकृतम्।
छात्र आरक्षकशिक्षार्थीयोजना अधिकं विद्यालयेषु आयोक्ष्यते - केरलस्य मुख्यमन्त्री ।
अनन्तपुरी> केरलेषु विद्यालयेषु आयोजिता छात्रारक्षकशिक्षार्थीयोजना [Students Police Cadet project]आगामिनि संवत्सरे अधिकं विद्यालयेषु व्यापयिष्यते इति मुख्यमनत्रिणा पिणरायि विजयेन प्रोक्तम्। छात्रारक्षकाणां राज्यस्तरीयशिबिरस्य समापनसम्मेलनम् उद्घाटनं कुर्वन् भाषमाणः आसीत् मुख्यमन्त्री।
अस्याः योजनायाः गुणफलानि यावच्छक्यं छात्रेषु प्रापयितुमेव लक्ष्यः। इदानीं ५७४ विद्यालयैः ५०,००० आरक्षकावरजाः अनया योजनया परिशीलनं प्राप्तवन्तः सन्ति। देशाय स्वास्थ्यसम्पूर्णा प्रवर्तनक्षमा च परम्परा आवश्यकी, तदेव एतादृशी योजना लक्ष्यीकरोति।