OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, March 17, 2017

परीक्करः अङ्गीकारः प्राप्तः। 
पनजी> मनोहरपरीक्कर् सर्वकारः गोवा विधानसभायां मतदानाङ्गीकारः प्राप्तः। चत्वारिंशदङ्गयुक्तायां सभायां  द्वाविंशति सामाजिकाः परीक्कर् सर्वकाराय सहयोगं कृतवन्तः। विपक्षदलाय कोण्ग्रस् दलाय केवलं षोडश सामाजिकानां सहयोगः प्राप्तः। केन्द्रसर्वकारस्य राष्ट्रक्षामन्त्रिस्थानं त्यक्त्वा परीक्करः मुख्यमन्त्रिरूपेण सत्यशपथं कृतवान्।

ताज्महल् लक्ष्यीकृत्य ऐ एस् अनुकूल संघटना।
नवदेहली>भीकरसंघटना इस्लामिक स्टेट् भारतस्य ऐतिहासिकस्थानान् लक्ष्यीकरोतीति रहस्यान्वेषणविभागस्य सूचना। ऐ एस् अनुकूल संघटना अहवाल् उम्मत्त मीडिया सेण्टर ताज्महलं लक्ष्यीकरोतीति वार्ता। वार्तावलम्बीनिः चित्राणि तथा अन्यानि अभिज्ञानानि च प्राप्तानि। प्राप्ते चित्रे कृष्णवस्त्रं धृत्वा सायुधः एकः ताज्महलं प्रति तिष्ठति , एवं तस्य अधः नवीनं लक्ष्यमिति लिखितं वर्तते।
 सप्तत्यधिक भारतीयाः ऐ एस् मध्ये भागं स्वीचक्रुः इति सुरक्षा कर्मकराणां मतम्। केरलम् कर्णाटका महाराष्ट्रा इत्येभ्यः राज्येभ्यः अधिकाः ऐ एस् भागं स्वीकृतवन्तः। अन्तर्जालद्वारा टेलिग्राम द्वारा च जनैः सह ते संपर्कं कुर्वन्ति।