OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, June 4, 2018

सर्वाणि औषधानि मूल्यनियन्त्रणपट्टिकायां योजनीयानि इति केन्द्रसर्वकारः।
- रम्या पि यु
    नवदिल्ली>   राष्ट्रे विक्रीयमाणानि सर्वाण्यपि औषधानि मूल्यनियन्त्रणपट्टिकायां योजनीयानि इति केन्द्रसर्वकारः। एतदर्थं विद्यमानेषु औषधमूल्यनियन्त्रणविधानेषु भेदाः कल्पनीयाः इति स्वास्थ्यमन्त्रालयस्य श्रमाः आरब्धाः। जूण् अन्तिमे एव नवं विधानम् अवतारयितुं सर्वकारः यतते। अधुना सार्धाष्टशतम् औषधानि एव पट्टिकायां वर्तन्ते। एतेषाम् मूल्यं तु समयोचितम् परिष्कर्तुं मूल्यनियन्त्रणसमितिरपि सर्वकारेण आनीता आसीत्। समितेः पट्टिकायां यान्यौषधानि न विद्यन्ते तेषाम् मूल्यं तु प्रतिवर्षं दशप्रतिशतं यावत् वर्धयितुं औषधनिर्मातृणाम् कृते अनुज्ञा आसीत्। नूतनसंविधाने एतानि सर्वाणि औषधानि पट्टिकायाम् अन्तर्भाव्यानि इति टाईम्स् ओफ् इन्ड्या आवेदयति।