OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 3, 2018

एवरस्ट् मालिन्यात् मुक्तम् अभवत्- २.३ टण् मनुष्यविसर्जयः चीेनेन निर्मार्जितः।
   बैजिङ्> सन्दर्शकैः  पर्वतारोहकैः च निक्षिप्यमानेन मलिनवस्तुभिः पर्वतः मालिन्यवान् अभवत्। एप्रिल् मासात् चीनेन ८.५ टण् मितं मालिन्यं निर्मार्जितम्। ग्लोबल् टैंस् वार्तापत्रिकया आवेदिता। ३० अङ्गैैर्युक्तेन सङ्घेन मालिन्यनिर्मार्जनमकरोत्। आहत्य ७.५ टण् मालिन्येषु २.३ टण् मनुष्यविसर्जयः अस्ति। पर्वतारोहकैः निक्षिप्तानि एकटण्मितानि मालिन्यानि अपि निर्मार्जितानि इति टिबटस्य पर्वतारोहकोद्योगस्थाः अवदन्। 
     विगते संवत्सरे मार्च् मेई मासेषु टिबट् प्रदेशतः २०२ नेपल प्रदेशतः ५५६ नागरिकाः पर्वतमधिगन्तुम् आगताः। अतिरिच्य सहस्राधिकाः सन्दर्शकाः च उभयत्र विद्यमानासु शिबिरेषु समागताः अासन्।