OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 10, 2018

अतिवर्षेण केरले नव मृत्यवः।
     कोच्ची > केरलराज्ये मण्सूण् नामकवर्षाकालः शक्तः। अतिवर्षेण सह प्रवृत्तेन प्रचण्डवातेन सञ्जातासु दुर्घटनासु विविधेषु जनपदेषु नव जनाः मृत्युमुपगताः। कण्णूर् जनपदे त्रयः, अनन्तपुर्यां त्रयः, कासर्गोडे द्वौ, कोष़िक्कोड् जनपदे एकश्च मृताः।
      मङ्गलवासरपर्यन्तं केरले अतिशक्ता वृष्टिः प्रतीक्षते। वातवेगः ६० कि.मी. यावत् भविष्यतीत्यतः केरल कर्णाटक लक्षद्वीपतीरवासिनः धीवराः जागरणीयाः भवेयुः।