OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, June 29, 2018

रेलयानयात्रामध्ये दश सीमासंरक्षणभटाः तिरोभूताः।
डा. अभिलाष् जे
   कोल्कत्ता>पश्चिमबंगतः जम्मुकाश्मीरं प्रति विशिष्टरेलयाने यात्रां कुर्वन्तः दश सीमासंरक्षकभटाः तिरोभूताः। पश्चिमबंगालस्थ बरधमानस्य बिहारस्थ धनबादस्य च मध्ये ते तिरोभूताः इति आरक्षकैः उक्तम्। ८३ भटाः अस्मिन् याने आसन्। दीन दयाल उपाध्याय रयिल् निस्थाने याने आगते सति भटानां संख्यागणनासमये  दशभटानां अदृश्यतावार्ता विज्ञाता। अनन्तरं भटानां नेता  रेल् निस्थानकार्यकर्त्रे आरक्षकाय आवेदम् अयच्छत्।