OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, June 25, 2018

राष्ट्रस्य गतागतसंविधानम्  अधिकतया नवीकरिष्यति - भारतस्य प्रधानमन्त्री।
     नवदिल्ली> राष्ट्रे अत्याधुनिक-गतागतसुविधा एव सर्वकारेण लक्ष्यीक्रियते इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। दिल्ली मेट्रोरेल् संस्थायाः हरितपट्टिकायाः उद्घाटनं कृत्वा भाषमाणः आसीत् सः। मेट्रोसेवां वीडियो कोण्फ्रन्सिङ् इति दृश्यश्रव्यमाध्यमेन अासीत् उद्धाटनम्।  मुण्डक अारभ्य बहादूरगढ् पर्यन्तं ११.२ किलोमीट्टर् मार्गः एव राष्ट्राय समर्पितः। अस्मिन् अवसरे मोदिना भणितं यत् नगरेषु सौविध्यपूर्णतया अल्पमूल्यात्मिकाश्च यात्रायाः प्रणाल्याः प्रवर्तनं प्रशासनस्य लक्ष्यमिति नरोन्द्रमोदिना उक्तम्। अाहत्य दिलीमेट्रोमार्गस्य दैर्घ्यः इदानीम् २८८किलोमीट्टर् अभवत्।