OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 3, 2018

   कालिफोर्णियायाः राज्यपालः भवितुम् द्वाविंशतिवयस्कः भारतवंशजोपि।
- रम्या पि यु
   वाषिङ्टण्> कालिफोर्णियायाः राज्यपालपदाय स्पर्थिषु स्थानाशिषु कनिष्ठः भारतवंशजः। उत्तरप्रदेशे मूलभूतः शुभं गोयलनामकः द्वाविंशतिवयस्कोयम्। जननं वर्धनं च कालिफोर्णियायां चेदपि शुभस्य मूलकुटुम्बम् उत्तरप्रदेशे एव। लखनौ स्वदेशिनः विपुलगोयलस्य पुत्रोयम्। तन्त्रज्ञान (सोफ्ट्वेयर्) संस्थायाः स्वामी भवति विपुलः। शुभस्य माता तु मीरट् स्वदेशिनी। डान्विल्लेयाम् अस्य वासः। कालिफोर्णिया विश्वविद्यालयात् बिरुदपठनम् पूर्तीकृत्य विर्च्वल् रियालिटी संस्थायाम् प्रबन्धकत्वेन कार्यं कुर्वन्नस्ति एषः। सामाजिकमाध्यमैः एवायम् जनसामान्यान् प्रति संवदते। राष्ट्रियव्यवस्थितौ सुतार्यता अनिवार्या इति प्रचारणे तस्य ध्येयवाक्यम्। डमोक्राटिकदलात् नियुक्तस्य विद्यमानराज्पालस्य जेरि ब्रौणस्य अनुवर्तको भवितुं सर्वथा योग्यः इति स्वयं विश्वसिति च शुभम्। आहत्य सप्तविंशतिः स्थानाशिनः निर्वाचने भागं गृह्णन्तः आसन्।