OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, June 28, 2018

आक्रमणं न भविष्यति भवन्तः अस्माकम् अतिथयः - हिस् बुल्ल् सन्देशः। 
      श्रीनगरम्> अमरनाथ तीर्थाटकान् प्रति हिस् बुल्ल् दलीयानां सन्देशः एवं प्रचलत् अस्ति। आक्रमणं न भविष्यति भवन्तः अस्माकम् अतिथयः आक्रमणाय उद्देशः नास्ति अतः सुरक्षायाः आवश्यकता नास्ति इत्यस्ति सन्देशः। हिस्बुल्  मुजाहीतीन् भीकरदलानां कमान्टर् रियास् अहम्मद् नाय्कू इत्यस्य भवति अयं सन्देशः इति अनुमन्यते। पञ्चदशनिमेषदैर्ख्यमितः शब्दसन्देशः सामाजिकमाध्यमद्वारा एव प्रचलति।
तीर्थाटकान् प्रति आक्रमणः स्यात् इति केन्द्रप्रज्ञातृभिः पूर्वसूचना प्रदत्ता आसीत्। अत एव शक्ता सुरक्षा कृता अस्ति। अवसरेस्मिन् भवति एतादृश शब्दसन्देशस्य प्रसारणम्। गतवर्षस्य आक्रमणे अष्टतीर्थाटकाः भीकराक्रमणेन हताः अासन्।