OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, June 12, 2018

प्राथमिक कक्ष्यायाः संस्कृताध्ययनम् - षष्ठदिनस्य छात्रसंख्याम् विगणय्य केरलसर्वकारः। 
   
कोच्ची> केरळस्य सामाजिक विद्यालयेषु प्राथमिक कक्ष्यायां अध्ययनं कुर्वतां संस्कृतछात्राणां गणना अस्मिन् वर्षेऽपि सर्वकारेण न कृता। प्रति संवत्सरं नूतनतया संस्कृताध्ययनाय अागतानां संख्या वर्धते च। किन्तु सामाजिक शिक्षासंरक्षणयज्ञम् अनुष्ठीयमानः सर्वकारः संस्कृताध्ययनं प्रति विप्रतिपत्या तिष्ठतीति संस्कृताध्यापकानां संघ (KSTF)नेतारः वदन्ति। सर्वकारस्य सम्पूर्ण नाम अन्तर्जालनिस्थान द्वारा एव गणनादिकार्याणि कुर्वन्ति। प्राथमिककक्ष्यासु पाठपुस्तकानि, परीक्षाः च सन्ति। तथापि कति छात्राः संस्कृताध्ययनं कुर्वन्ति इति सरर्वकारस्य पार्श्वे गणना नास्ति। अरबिक् भाषाध्ययनवत् संस्कृतस्यापि अवसरः भवतु इति उक्त्वा संस्कृताध्यापकाः शैक्षिकोपजनपदकार्यालयानां पुरतः समरं कृतवन्तः। मङ्गलवासरे विद्यालयसमयानन्तरम् आसीत्  अध्यापकानां मेलनम्। विविधावश्यकान् उन्नीय  निवेदनमपि प्रदत्तम्।