OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, July 5, 2022

 नाटकनिदेशकः पीटर् ब्रूकः दिवंगतः। 


लण्टन्> विश्वप्रसिद्धः ब्रिट्टनीयनाटकनिदेशकः पीटर् ब्रूकः [९७] दिवंगतः। षेक्स्पियरस्य रचनाः आरभ्य भारतीयाः पुराणेतिहासकथाः पर्यन्तं नाटकरूपेण वेदिकामानीतवान् प्रतिभासम्पन्नः आसीदयम्। पारम्पर्यगङ्गसज्जीकरणादिभ्यः बहिः प्राप्तवान् ब्रूक् वर्यः असाधारणानि स्थानान्यपि नाटकावतरणाय वेदिकामकरोत्। व्यायामकेन्द्राणि, खननस्थानानि, विद्यालयाः इत्यादयः तस्य नाटकावतरणस्थानानि आसन्। 

   भारतस्य इतिहासग्रन्थः महाभारतं नवहोरापर्यन्तं दैर्घ्ययुक्तेन नाटकरूपेण वेदिकामानीय पीटर् ब्रूकः लोकप्रसिद्धः अभवत्। आगोलनाटकमण्डले प्रसिद्धान् अभिनेतॄन् वेदिकामेकां संयोज्य आसीत् महाभारतस्य रङ्गाविष्कारः। तत्र द्रौपदीरूपेण भारतीया मल्लिका साराभायी, भीमः, भीष्मः, कर्णः, कुन्ती इत्येतान् आफ्रिकाभूखण्डात्, द्रोणाचार्यं  गान्धारीं  च एष्याखण्डात् च इत्येवं महाभारतनाटकस्य २१ कथापात्राणि १६ राष्ट्रेभ्यः प्रगत्भान् नटान् अधिगम्य  सः वेदिकामानीतवान्।