OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 7, 2022

 पि टि उषा, इलयराजाप्रभृतयः चत्वारः राज्यसभां प्रति नामनिर्दिष्टाः।

नवदिल्ली> ओलिम्पिक्स् स्पर्धात्री पि टि उषा, प्रसिद्धः सङ्गीतनिदेशकः इलयराजा, चलच्चित्रनिदेशकः के वि विजयेन्द्रप्रसादः, सामाजिकप्रवर्तकः वीरेन्द्र हेग्डे इत्यते राष्ट्रपतिना राज्यसभासदस्यरूपेण नियुक्ताः। चत्वार अपि दक्षिणभारतीयाः भवन्ति। 

   नूतनान् राज्यसभासदस्यानपि प्रधानमन्त्री नरेन्द्रमोदी अभिनन्दितवान्। विविधमण्डलेषु स्वप्रतिभां प्रकाशितवतां १२ महापुरुषाणां नामानि  निर्दिष्टानि  भवन्ति।