OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, July 3, 2022

जङ्गमदूरवाणीं दूरे क्षिप्त्वा जीवनं नयतु इति जङ्गमदूरवाण्याः आविष्कर्ता मार्ट्टिन् कूप्परः।


करतले स्थापयित्वा सर्वत्र नेतुं शक्या काचन दूरवाणी इत्यमुम् आशयं  प्रवृत्तिपथमानीतवान् यः भवति सः मार्ट्टिन् कूप्परः जङ्गमदूरवाण्यां अहोरात्रं समयं यापयितॄन् नूतनवंशपरम्परान् प्रति एवं वदति - जङ्गमदूरवाणीं दूरे क्षिप्त्वा जीवनं नयतु इति। बि बि सि माध्यमस्य कार्यक्रमे भागं स्वीकुर्वन् भाषमाणावसरे एव जङ्गमदूरवाण्याः सह अधिकसमयं यापयितृभ्यः नूतनवंशपरम्पराभ्यः तस्य उपदेशः। सः तस्य समयस्य प्रतिशतं पञ्चोनसमयमेव जङ्गमदूरवाण्याः उपयोगं कुरुते इति सः व्यजिज्ञपत्। दूरवाण्यां अधिकसमयं यापयन्तः जनाः अल्पसमयम् एव जीवन्ति इति सः अवदत्। आप् आनि नाम आप् मोणिहिङ् संस्थायाः गणनामनुसृत्य जनाः प्रतिदिनं सामान्यतः ४.८ होराः यावत्  जङ्गमदूरवाण्यां समयं यापयन्ति। इमां गणनामनुसृत्य प्रतिसप्ताहं ३३.६ होराः तथा प्रतिमासं १४४ होराः भविष्यति। एवं चेत् संवत्सरे मासमेकं दूरवाण्यां यापयन्ति ।