OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 8, 2022

 बोरिस् जोण्सणः त्यागपत्रं समर्पितवान्। 


लण्टन् > ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणः पदमत्यजत्। तेन नेतृत्वं क्रियमाणात् 'कण्सर्वेटीव् पार्टी' इत्यस्मात् क्लेशे वर्धिते नेतृस्थानं त्यक्तुं सः निर्बन्धितः आसीत्। नूतननेतुः निर्वाचनं तावत् प्रधानमन्त्रिपदे अनुवर्ते इति गतदिने तेन स्पष्टीकृतम्। नूतननेतुः निर्वाचनाय संघटनस्य वरिष्ठनेतृजनानाम् उपवेशनं सोमवासरे भविष्यतीति जोण्सणः अवोचत्। 

  लैङ्गिकारोपणविधेयं क्रिस्टफर् पिञ्चर् नामकस्य   Deputy chief whip स्थाननियुक्तिरेव जोण्सणस्य क्लेशपरम्परायाः प्रारम्भः। पिञ्चरस्य स्थानारोहणात्परं बहवः मन्त्रिणः स्वस्थानानि त्यक्त्वा प्रतिषेधं प्रकटितवन्तः। एवं ४० नेतारः मन्त्रिणश्च प्रशासनात् संघटनाच्च त्यागपत्रे समर्पिते बोरिस् जोण्सणस्य स्थानत्यागश्च अनिवार्यः अभवत्।