OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 15, 2022

उत्तरप्रदेशसंस्कृतसंस्थानेन संगणक-ई-संसाधन-कार्यशालायाः शुभारम्भः।

 राष्ट्रियशिक्षानीति: २०२० इत्याधारिते नवीनपाठ्यक्रमेषु संगणकेन सह ई-संसाधनानां ज्ञानम् अपेक्षितमस्ति। अतः संस्कृतविकासाय संगणकस्य, ई-संसाधनानाञ्चोपयोगिता विषयिण्याः सप्तदिवसीयायाः कार्यशालायाः शुभारम्भो जातः। संस्थानस्य माननीया अध्यक्षमहोदयाः आचार्या वाचस्पतिमिश्रमहोदयाः स्वकीयमार्गदर्शनं विधाय शुभारम्भं कृतवन्तः।

कार्यशालायाम् आभारताद् षड् शताधिकाः शिक्षकाः, छात्राश्च प्रतिभागितायै पञ्जीयनं कारितवन्तः सन्ति। अधिकजनानां जिज्ञासां दृष्ट्वा सत्रद्वये समायोजिता वर्तते कार्यशाला। 

उद्घाटनानन्तरं प्रथमसत्रे दिल्ली विश्वविद्यालयतः डॉ॰ उमेशकुमारसिंहमहोदयाः संस्कृते लेखनाय विभिन्नटूल्स-लिपिविषये व्याख्यानं प्रयोगञ्च कारितवन्तः। द्वितीयसत्रे संस्थानस्य प्रशासनिकाधिकारिणः श्रीमन्तो जगदानन्दझामहोदयाः संगणकस्य परिचयं सविस्तरं बोधितवन्तः।


अन्ते पर्यवेक्षकरूपेणोपस्थिताः डॉ॰ नवलता-महोदयाः अपि सम्बोधितवत्यः। कार्यशालायाः सञ्चालनं संयोजकः डॉ॰ चन्द्रकान्तदत्तशुक्लवर्याः कृतवन्तः। आदौ प्रखरप्रांशुलपाण्डेयौ सरस्वतीवन्दनां प्रस्तुतवन्तौ। डॉ॰ अरविन्दकुमारतिवारी, डॉ॰ गीता शुक्ला, डॉ॰ विमलेन्दुत्रिपाठी, डॉ॰ अवनीन्द्रपाण्डेयप्रभृतयः समुपस्थिता आसन्।