OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 15, 2022

 भारते वानरवसूरिरोगः दृढीकृतः।

अनन्तपुरी> भारते इदंप्रथमतया वानरवसूरिरोगः दृढीकृतः।  दिनद्वयात्पूर्वं यू ए ई राष्ट्रात् स्वराज्यं प्राप्तस्य कोल्लं प्रदेशीयस्य केरलीयस्य शरीरे परिशोधिते  एवास्य रोगस्य स्थिरीकरणम्। 

  यू ए ईस्थे मित्रे वानरवसूरिः स्थिरीकृतः इत्यस्मात् केरलं प्राप्तः कोल्लं प्रदेशीयः समीपस्थं आतुरालयं प्रविश्य परिशोधनां कृतवानासीत्। पूणैस्थं Virology Institute मध्ये शोधिते स्रवे वानरवसूरिरोगस्य सूक्ष्माणवः दृष्टाः। अतः सः इदानीं अनन्तपुरी मेडिक्कल् कोलज् आतुरालयं प्रवेशितः।