OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, July 3, 2022

 जनावासकेन्द्रं प्रति अग्निशस्त्राक्रमणं- युक्रैने मरणानि २१। 

कीव्> युक्रेनस्थे ओडेसाप्रदेशे जनावासकेन्द्रं प्रति गतदिने रूसेन कृतेन अग्निशस्त्रप्रयोगेण मरणानि २१ अभवन्। उपचत्वारिंशत् जनाः व्रणिताः जाताः। आक्रमणमिदं रूस् राष्ट्रस्य प्रशासनभीकरतां प्रकाशयतीति युक्रेनस्य राष्ट्रपतिः व्लादिमिर् सेलन्स्की आरोपितवान्। 

  ओडेसाप्रदेशस्थे सेर्हिकानामके स्थाने सहस्रपर्यन्तं सामान्यजनाः अधिवसन्तं नवश्रेणीयुतम्  आवाससमुच्चयं प्रति गतदिने उषसि एकवादने आसीत् आक्रमणम्। त्रीणि अग्निशस्त्राणि निपतितानि। भवनसमुच्चयस्य कश्चिदंशः पूर्णतया विशीर्णः। तत्र आयुधाः सैनिकोपकरणानि वा न सम्भृतानीति सेलन्स्किवर्येण उक्तम्।

   किन्तु रूसस्य आक्रमणं जनावासं लक्ष्यीकृत्य नासीत् , प्रत्युत स्फोटकवस्तु-आयुधसम्भृतानि भवनानि लक्ष्यीकृत्य आसीदिति रूस् राष्ट्रस्य प्रवक्ता दिमित्री एस् पेस्कोव् इत्यनेन निगदितम्।