OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 13, 2023

 भजन् लाल शर्मा  राजस्थानस्य मुख्यमन्त्री।

नवदिल्ली> सप्ताहाधिकं यावत् दीर्घितानां चर्चानाम् उपवेशनानामनन्तरं राजस्थानराज्ये अपि मुख्यमन्त्री निर्णीतः। इदंप्रथमतया विधानसदस्यरूपेण चितः भजन् लाल शर्मा राजस्थास्य मुख्यमन्त्री भविष्यति। पूर्वं द्विवारं मुख्यमन्त्रिणी अभूतायाः वसुन्धरा राजसिन्ध्ये इत्यस्याः सान्निध्ये केन्द्रप्रशासनस्य निरीक्षकस्य रक्षामन्त्रिणः राजनाथसिंहस्य नेतृत्वे सम्पन्ने उपवेशने आसीदयं निर्णयः। दिल्यां भा ज पा कार्यालये आसीदुपवेशनम्। 

  राजस्थाने द्वौ उपमुख्यमन्त्रिणावपि निर्णीतौ। दियाकुमारी नामिका जयपुरं राजभवनस्य राजकुमारी , तथा प्रेम चन्द्र बट्वः च उपमुख्यमन्त्रिणौ।