OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 13, 2023

 गासीयाः जनाः दुर्भिक्षामनुभवन्ति। 


गासा> यत्र संयुक्तराष्ट्रसंघटनस्य साहाय्यानि प्राप्तानि तस्मिन् दक्षिणगासानगरे अपि इस्रयेलस्य आक्रमणे तीव्रे गासीयाः जनाः अतिकठिनं दौर्भिक्षामनुभवन्ति। गासाक्षेत्रे सर्वत्र भोज्यदारिद्र्यम् अतितीव्रमस्ति। 

  "इस्रयेलः प्रथमं बोम्बक्षेपणद्वारा गासाममारयत्। इदानीं दौर्भिक्षया मारयति। अस्माकमपत्यानि भोज्याय वीथिषु भिक्षाटनं कुर्वन्ति।" षडपत्यानां पितुः अबुखलीलः इत्यस्य परिदेवनान्येतानि। गासाप्रान्ते अवशिष्टेषु जनेषु अर्धांशः खाद्यदारिद्र्यमनुभवन्तः इति यू एन् संस्थायाः भोज्यपरियोजनाविभागेन निगदितम् च। 

  लोके सर्वत्र इस्रयेलेन कुर्वन्तं युद्धं समापयितुं प्रक्रमाः करणीयाः इत्यर्थयित्वा बहुजनप्रक्षोभाः प्रचलन्तः सन्ति।