OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, December 30, 2023

 दिनेनैकेन केरलराज्यं संद्रष्टुं शक्यते। हेलि टूरिसं परियोजनया सह केरलपर्यटनविभागः।

    केरलस्य पर्यटनक्षेत्रे नूतनम् अनुभवं दातुं हेलि टूरिसं परियोजनया सह केरलपर्यटनविभागः सज्जते। केरलराज्यसन्दर्शनाय आगतेभ्यः सन्दर्शकेभ्यः अतिद्रुतं राज्यस्य विविधभागान् संप्राप्य मनोहराणि आकाशदृश्यानि आस्वादयितुम् एव हेलि टूरिसं (heli tourism) परियोजना समायोजिता इति पर्यटनविभागमन्त्रिणा पि ए मुहम्मद् रियासेन निवेदितम्। परियोजनायाः समारम्भः दिसंबर् मासस्य त्रिंशत्तमे दिनाङ्के नेटुम्बाश्शेरिदेशे भविष्यति। दिनेनैकेन जलाशय - समुद्रतट-गिरिप्रदेशयुक्तस्य केरलस्य मनोहरभूप्रकृतेः आस्वादनाय परियोजनेयं प्रयोजकीभविष्यति।