OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, December 29, 2023

 खत्तरे  अष्टानां भूतपूर्वनाविकानां मृत्युदण्डः   निरस्तः। 

भारतस्य नयतन्त्रविजयः इत्युद्घोषः। 

नवदिल्ली> खत्तरराष्ट्रे तद्देशीयसर्वकारेण मृत्युदण्डाय विहितानाम् अष्टानां भूतपूर्वनाविकानां भारतीयानां समाश्वासः। तेषां मृत्युदण्डः निरस्त इति भारतीयविदेशकार्यमन्त्रालयेन निगदितम्। 

   भारतीयनौसेनायाः सेवानिवृत्तेषु  अष्टभारतीयेषु खत्तरस्य कस्यांश्चित् निजीयसंस्थायां कर्म कुर्वत्सु देशविरोधप्रवर्तनकारणेन   २०२२ ओगस्टमासे निगृहीताः कारागारे बद्धाश्चासन्। ओक्टोबरमासे उपधानन्तरं मृत्युदण्डाय विहिताश्च। एनं विरुध्य समर्पितायाम् अभियाचिकायामेव अधुना आश्वासविधिः अजायत। विधेः पूर्णरूपं न बहिरागतम्। 

  भारतस्य प्रधानमन्त्री नरेन्द्रमोदी दुबाय् देशे सम्पन्ने 'कोप् - २८' उच्चशिखरसम्मेलने खत्तरस्य  अधिकारिणा शैख् शमीम् बिन् हमद् महाशयेन सह विधत्ते अभिमुखे भारतीयनाविकानां प्रकरणमुन्नीतवान् इति श्रूयते स्म। अतः भारतस्य नयतन्त्रविजयः भवत्येतदिति अभिज्ञाः वदन्ति।