OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, December 15, 2023

 संसदि द्वयोर्युवकयोः अक्रमोद्यमः।

 सुरक्षाप्रकरणे जागरणव्यतियानमिति विमर्शः।

पञ्च जनाः निगृहीताः। 

नवदिल्ली>  २२ संवत्सरात् पूर्वं भारतीयसंसदि दुरापन्नं भीकराक्रमणमनुस्मृत्य गतदिने पुनरपि युवयोः अतिक्रमप्रवेशः। नूतनसंसद्मन्दिरस्य लोकसभायाः सन्दर्शकप्रकोष्ठात् द्वौ युवकौ सभागारं प्रति उत्क्रमप्रवेशमकुरुताम्। तयोरेकः सदस्यानामासन्दानाम् उपरिष्ठात् सभानाथस्य आसनं लक्ष्यीकृत्य उत्प्लावितवान्। अपरः वर्णोपेतवातकं प्रसार्य आशङ्काजनकमन्तरीक्षम् असृजत्। 

  अक्रमिणौ युवकौ सदस्यैः परिगृहीतौ। उत्तरप्रदेशीयः सागर शर्मा मैसुरु स्वदेशीयः मनोरञ्जन् गौडः च एताविति परं निर्णीतम्। ततः संसदः बहिश्च एतत्संघाङ्गाः त्रयोSपि आरक्षकैः निगृहीताः। 

  संसदः अन्तः सुरक्षायां महान् जागरणव्यतियानमभवदिति विपक्षदलीयैः नेतृभिः उक्तम्।