OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, December 30, 2023

 युद्धविरुद्धकवितापारायणं - रूसीयकवेः सप्तवर्षाणां कारागारदण्डः। 

मोस्को> युक्रैने रष्याया‌ः अधिनिवेशं विमर्श्य कवितां विरच्य पारायणं कृतवान् आर्ट्यों कमर्दीन् नामकः रूसीयकविः सप्तवर्षाणां कारागारदण्डाय विहितः। विमर्शकान् निश्शब्दीकर्तुं पुतिनप्रशासनेन विधायमानेषु कठिनप्रक्रमेषु अन्तिमं भवत्येतत्। 

  गतगुरुवासरे मोस्कोस्थ 'ट्वर्स्कोयि' जनपदनीतिपीठेन आसीदयं दण्डनीतिः। २०२२ फेब्रुवरिमासतः गतमासपर्यन्तं युक्रैनयुद्धविमर्शप्रकरणेषु १९,८४७ जनाः निगृहीताः। ७९४ जनानामुपरि दण्डनीयापराधाः विहिताश्च।