OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, December 3, 2023

 प्रलयदुरितं समाप्तम्। मणालिदेशे हिमपातः समारब्धः।

हिमस्नाने - मणाली

   हिमाचलप्रदेशे प्रसिद्धे विनोदपर्यटनकेन्द्रे मणालीदेशे पुनः हिमपातः समारब्धः। राज्ये विनोदपर्यटनक्षेत्रं सम्पन्नं भविष्यति इति प्रत्याशायां वर्तन्ते अधिकारिणः। अस्मिन् संवत्सरे दुरापन्ने प्रलयदुरिते षिंला, कुलू, मणाली इत्यादीनि हिमाचलप्रदेशस्थानि विनोदपर्यटनकेन्द्राणि भञ्जितानि आसन्। विनोदपर्यटनक्षेत्रमपि सङ्कटे पतितमासीत्। शैत्यकालपर्यटने समारब्धे अस्मिन् सन्दर्भे पूर्वावस्थायाः प्रगतिः भविष्यति इति अधिकारिभिः प्रतीक्ष्यते।