राष्ट्रस्य स्वच्छ सर्वेक्षणपरिणामः उद्घोषितः।
इन्दोर्, सूरट्, नवि मुम्बई नगराणि यथाक्रमं प्रथम द्वितीय तृतीयस्थानेषु।
नवदिल्ली> भारते सर्वोत्कृष्टाणि स्वच्छतापूर्णनगराणि निर्णेतुमुद्दिश्यमानस्य स्वच्छसर्वेक्षणस्य परिणामः उद्घोषितम्। जनसंख्याधारितमासीत् सर्वेक्षणम्। दशलक्षाधिकजनसंख्यायुतेषु नगरेषु प्रथमस्थानं मध्यप्रदेशस्थेन इन्दोरनगरेण स्वायत्तीकृतम्। द्वितीयस्थानं सूरट् [गुजरात्] नगरेण प्राप्तम्। तृतीयस्थाने महाराष्ट्रस्य नवि मुम्बई अस्ति।
३ - १० लक्षं जनसंख्याविभागे यू पि राज्यस्थं नोय्डा नगरं प्रथमस्थानं प्राप। द्वितीयं तु चण्डीगड् नगराय, तृतीयं मैसुरु नगराय च लब्धम्।
नवदिल्ली, तिरुप्पती, अम्बिकापुरं नगराणि अर्धलक्षतः त्रिलक्षपर्यन्तं इति विभागे यथाक्रमस्थानानि प्रापुः। जैवाजैवमालिन्यानां विभजनं, संग्रहणं, संस्करणं, बोधवत्करणं, जलस्रोतसां परिपालनम् इत्यादीनि सूचकानि मूल्यनिर्णये परिगणितानि।