OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, July 18, 2025

 राष्ट्रियस्वच्छ सर्वेक्षणे केरलनगराणि प्रथमशतके अन्तर्भूतानि। 

नवदिल्ली> राष्ट्रस्य उत्कृष्टस्वच्छनगराणामावल्यां केरलस्य अष्ट नगराणि प्रथमशतके अन्तर्भूतानि। इदंप्रथममेव केरलस्य अयमुपलब्धिः। 

  कोच्ची [५० तमश्रेणी], तृश्शूर् [५८], कोष़िक्कोट् [७०], तिरुवनन्तपुरं [८९], कोल्लं [९३] इत्येतानि महानगराणि, गुरुवायूर् [८२], मट्टन्नूर् [५३], आलप्पुष़ा [८०] इत्येतानि नगराणि च स्वच्छतापालने उत्कृष्टताम् आवहन्ति। 

  गतवर्षे केरलस्य  नगराणां स्थानं सहस्रादधः आसीत्। किन्तु ततःपरं मालिन्यसंस्करणादिविषयेषु केरलस्य प्रगतिरजायत इति अनेन सूचितमस्ति।