७९ संवत्सरेभ्यः परं लहोरस्थं सिख् मन्दिरम् उद्घाटितम्।
लहोर्> भारत-पाकिस्थानविभजनानन्तरं ७९ संवत्सरैः पिहितं लहोरस्थं चरित्रप्रसिद्धं गुरुद्वारामन्दिरं नाम्ना 'छेविन् पात् शाहि श्री गुरु हर्गोविन्द साहिब्' आराधनार्थं पुनरुद्घाटितम्। रविवासरे सिखधर्माचारैः आसीदुद्घाटनम्।
षष्ठः सिख गुरुः गुरु हर्गोविन्द साहिब् इत्यस्य लाहोरसन्दर्शनं पुरस्कृत्य स्थापितमस्ति इदं चरित्रस्मारकम्।