हसीनां प्रत्यर्पयितुं भारतम् अपेक्षितम्।
धाक्का> राष्ट्रात् भ्रष्टवती भूतपूर्वा प्रधानमन्त्रिणी षैक् हसीना दण्डिता अपराधिनी इत्यतः सा प्रत्यर्पणीया इति बङ्गलादेशस्य नीतिमन्त्री मुहम्मद असदुस्समानः निगदितम्। बङ्गलादेशस्य निवेदनं लब्धं, तत्तु विचारे वर्तते इति भारतस्य विदेशकार्यमन्त्रालयेन च दृढीकृतम्।