OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 5, 2026

 लोहितसागरे भारतीय-भारवाहि-पोतस्य उपरि आक्रमणम्; पण्यनौका निमग्ना, १३ भारतीयेभ्यः सह १४ कर्मकराः सुरक्षिताः

    ​नवदिल्ली > लोहितसागरे (Red Sea) यमन-तटस्य समीपे 'एम्.एस.वी. फैज् नूरे ओलिया' (MSV Faiz Noore Olia) इति नामकेन भारतीय-भारवाहि- नौकायाः  (cargo ship) उपरि प्रक्षेपास्त्र-आक्रमणम् (projectile attack) अभवत्। आक्रमणेन नियन्त्रण हीना सन् सा नौका समुद्रतले विपरीभूत्वा निमग्ना।

​परन्तु, पोते उपस्थिताः १३ भारतीयनागरिकाः, एकः यमन-नागरिकः च  आहत्य १४ कर्मकराः यमन-तटरक्षकैः (Yemen Coast Guard) कुशलेन उद्धृताः। रक्षिताः सर्वे कर्मकराः यमनस्य 'मोखा' इति नौकाश्रयं (Mokha port) नीताः सन्ति, सर्वे च सुरक्षिताः सन्ति इति वार्ता-विवरणानि पुष्टिं कुर्वन्ति।