OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, October 29, 2025

 रेवतीपट्टतानं–२०२५ पुरस्काराः घोषिताः।

कृष्णगीति–पुरस्कारः — कावालं शशिकुमाराय।
मनोरमा–थम्बुराटि–पुरस्कारः — डॉ. ई. एन. ईश्वराय।
श्रेष्ठ–कृष्णनाट–कलाकार–पुरस्कारः — के. सुकुमाराय।

 श्रेष्ठ–काव्य–सङ्ग्रहाय, तळी–महालक्षेत्रस्य सामूतिरि–राज्ञः नेतृत्वेन रेवतीपट्टतान–समित्या दशकान्तराणि यावत् प्रदीयमानः “कृष्णगीति–पुरस्कारः” प्रसिद्ध–माध्यम–कार्यकर्त्रे कवये कावालं–शशिकुमाराय लब्स्यते।“नगरवृक्षस्थे  कोकिलः” इति नामकः कैरल्यां विरचितः काव्य–सङ्ग्रहः तं पुरस्काराय योग्यताम् अकरोत्।

कृष्णनाटस्य मूल–काव्यं यत् “कृष्णगीति” नाम, तस्य कर्ता सामूतिरि–मानवेदन्–राजा (१५९५–१६५८) भवति। तस्य महोदयस्य स्मरणार्थं सः “कृष्णगीति–पुरस्कारः” संस्थापितः।

त्रयः अपि पुरस्काराः — कांस्य–धातुना निर्मितं कृष्ण–शिल्पं, प्रशस्तिपत्रं  पञ्चदश–सहस्र–रूप्यक–राशिश्च — इत्येतैः सहिताः भवन्ति। पुरस्काराः नवम्बरमासस्य चतुर्थे दिने रेवतीपट्टतान–सदसि प्रदास्यन्ते।