OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 20, 2026

 संस्कृतभारती रुडकी-जनपदेन कृतस्य दशदिवसीयस्य सरलसंस्कृतसंभाषणशिबिरस्य शुभारम्भः ।

   रुडकी> संस्कृतभाषायाः प्रचारप्रसाराय तथा जनसामान्येषु संस्कृतसंभाषणप्रवृत्तेः विकासाय संस्कृतभारती रुडकी-जनपदेन आयोजितस्य दशदिवसीयस्य निःशुल्कस्य सरलसंस्कृतसंभाषणशिविरस्य शुभारम्भः योगी मङ्गलनाथ सरस्वती विद्यामन्दिर इण्टर् कोलेज् इत्यत्र सम्पन्नः।

    कार्यक्रमस्य शुभारम्भः जनपदाध्यक्षया डॉ. भारती शर्मणा, जनपदमन्त्रिणा श्रीमत्या श्रद्धा हिन्दुना, कार्यक्रमसंयोजकेन श्री हरीश पन्तेन, विद्यालयसंयोजिकया श्रीमती सवितया, प्रशिक्षकैः आचार्यविष्णुदत्तगौडेन, डॉ. रीताशर्मणा, कुमारी निशु नामदेवेन, डॉ. अनीता कौशिकेन, शोधछात्रया रिक्क्या तथा आचार्यपुरुषोत्तमशर्मणा च मातुः सरस्वत्याः पुरतः दीपप्रज्वलनेन वन्दनया च सह कृतः।

  कार्यक्रमस्य प्रारम्भे प्रशिक्षकः आचार्यविष्णुदत्तगौडः संस्कृतभारत्याः ध्येयगीतस्य सामूहिकगायनं कारितवान् तथा संस्कृतभाषायाः महत्त्वं तस्याः व्यवहारिकोपयोगितां च प्रकाशयामास।

   ततः परं प्रशिक्षणसत्रे आचार्यविष्णुदत्तगौडः उपस्थितान् छात्रान् छात्राश्च सरलया संवादात्मकया पद्धत्या पुंल्लिङ्ग-, स्त्रीलिङ्ग-, नपुंसकलिङ्ग- तथा सर्वनामशब्दानां प्रयोगस्य अभ्यासं कारितवान्। विद्यार्थिनः उत्साहेन

सहभागित्वा संस्कृतभाषायां वक्तुं ज्ञातुं च अभ्यासं कृतवन्तः।

  कार्यक्रमे उपस्थिताः सर्वे अतिथयः संस्कृतं जनभाषारूपेण प्रतिष्ठापयितुं तथा अधिकाधिकान् जनान् संस्कृतसंभाषणेन सह सम्बद्धान् कर्तुम् आह्वानं कृतवन्तः। अयं शिबिरः आगामिषु दशसु दिनेषु नियमितरूपेण सञ्चालितः भविष्यति, यस्मिन् प्रतिभागिभ्यः सरलस्य व्यवहारिकस्य संवादात्मकस्य च संस्कृतभाषाप्रशिक्षणं प्रदास्यते।