फेसबुक्-माध्यमात् प्रधानमन्त्रिणः मोदिनः चलच्चित्रस्य स्थगनम्:
ज़ुकर्बर्गः क्षमां याचेत इति सांसदानां समित्यध्यक्षः।
भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः एकं चलच्चित्रं (video) फेसबुक्-माध्यमात् अल्पकालं यावत् स्थगितम् (blocked) आसीत्। अस्मिन् विषये मेटा-संस्थायाः प्रमुखः मार्क्- ज़ुकर्बर्गः क्षमां याचेत इति सञ्चार-विषयक-संसदीयसमित्याः अध्यक्षः, भारतीयजनतापार्टी-दलस्य वरिष्ठनेता च उक्तवान्।
सञ्चार-सूचनाप्रौद्योगिकी-विषयक-संसदीय-स्थायिसमित्याः अध्यक्षः, भाजपा-सांसदः निशिकान्त-दुबे महोदयः अवदत् यत् एताः अल्गोरिदं-प्रणाल्यः "वैदेशिक-शक्तिभिः" सञ्चाल्यन्ते। यदि एतानि सामाजिक-माध्यमानि (platforms) देशस्य नियमानुकूलम् कार्यं न कुर्वन्ति, तर्हि तेभ्यः दत्तं 'सुरक्षित-आश्रय-संरक्षणम्' (safe harbour protection) निवर्तनीयम् इति तेन स्पष्टीकृतम्।
