OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, February 21, 2016

जाट्ट् प्रक्षोभाग्निः - हरियानायां ५ हताः।
नवदिल्ली - आरक्षणविषये जाट्समुदायगतैः क्रियमाणः प्रक्षोभः अनियन्त्रितरीत्या अक्रमासक्तः अभवत्। सुरक्षाकार्यकर्तृभिः ५ प्रक्षोभकाः हताः। प्रक्षोभरूक्षितेषु ९ जनपदेषु स्थितिनियन्त्रणाय सैन्यस्य साहाय्यम् अपेक्षितम्। रोथक्, भिवानि जनपदयोः सैनिकाः पथसञ्चलनं कृतवन्तः। प्रक्षोभकैः सर्वकारस्थापनानि अग्निसात्कृतानि। रेल्यानसहितं सर्वाणि गतागतानि स्थगितानि। जनजीवनं दुस्सह अभवत्। जट्समुदायगतान् सर्वान् ओ बि सि विभागे अन्तर्भावयितुमेव प्रक्षोभः कल्पितः।

संगणकीय-भाषाविज्ञान-क्षेत्रे संस्कृतम्।
  1. नवदिल्ली >"दिल्ली-विश्वविद्यालयस्य दक्षिण-परिसरस्थस्य श्रीमोतीलाल-नेहरू-महाविद्यालयस्य संस्कृत-विभागेन आयोजिते एकस्मिन् संस्कृत-कार्यक्रमे बहुविधाः प्रकल्पाः समुपकल्पिताः|कार्यक्रमारम्भे जवाहरलाल-नेहरुविश्वविद्यालयस्य संस्कृताध्ययन-विशिष्ट-केन्द्रस्य अध्यक्षेण प्राचार्येण गिरीशनाथ-झा-वर्येण पी-पी-टी-माध्यमेन संगणकीय-भाषाविज्ञान-क्षेत्रे संस्कृतमाधृत्य विधीयमानानि कार्याणि विशदीकृतानि | अवसरेsस्मिन् तेन एतदपि प्रदर्शितं यत् न केवलं भारतीय-भाषाणाम् , अपि च, कासाञ्चन योरोपीय-भाषाणामपि पोषिकास्ति पाणिनीया संस्कृत-भाषा | आधुनिकं संगणकीय-भाषाविज्ञानं साम्प्रतं सन्दर्भेsस्मिन् अनेकाः शोध-परियोजनाः अङ्गीकृत्य सुबहूनि कार्याणि विदधाति | एतदनु स्पर्धा-द्वयं [श्लोकोच्चारणं प्रश्नमन्चेति] सम्पन्नम्, ययोः विभिन्न-महाविद्यालयीयच्छात्रैः छात्रीभिश्च सोत्साहं सहभागित्वं निर्व्यूढम् | निर्णायक-त्रयेण [बलदेवानन्द-सागर-पंकजमिश्र-विकासेति] स्पर्धाद्वयस्य निर्णायक-भूमिका अनुष्ठिता | समग्रमपि कार्यक्रम-संयोजनं डो.कौशल्या-महाभागया सुष्ठुतया सम्पादितम् |"

Saturday, February 20, 2016

कौतुकवार्ताः
भगवतः हनुमतः उपस्थितिरावश्यकः - न्यायालयः।

बीहारुराज्यस्य रोह्तास् मण्डलस्य न्यायाधिपेन गतसप्ताहे अतिविशिष्टामेकाम् आज्ञां प्रख्यापिता। भगवतः हनुमतः साक्षादुपस्थितिः न्यायालये भवेदिति न्यायाधिपेन उद्घोषिता। मार्गविस्ताराय   हनुमान्मन्दिरस्य पतनं कारणीयम् इति राज्यमार्गसंरक्षणविभागेन दत्ते दूषणे एव इयमाज्ञा प्रख्यापिता।मार्गस्य उपघातेनैव पञ्चमुख शिलायाः उपस्थितिः इत्यस्मात् शिलायाः पतनेनैव मार्गस्य विस्तारः साध्यः इति  मार्गसंरक्षणविभागेन न्यायालये व्यवह्रतम्।
समाना एका आज्ञा बहु सरास् मण्डलस्य न्यायालयेनापि पूर्वं प्रख्यापिता आसीत्।
वंगदेशे सख्यं नास्ति; समञ्जनमस्तु। 

नवदिल्ली > वंगदेशे नियमसभानिर्वाचने सिपिएम् दलस्य कोण्ग्रस् दलेन सह सख्यस्य  अनुमतिः न लब्धा। किन्तु प्रादेशिकतले समञ्जनरूपेण निर्वाचनतन्त्रं प्रयोक्तुम् अङ्गीकारः लब्धः। द्विदिनात्मिकया केन्द्रसमित्या अयं निर्णयः कृतः।
एतदर्थं वंगदेशे तृणमूलसर्वकारं बहिष्कर्तुं भाजपादलं पृथक्कर्तुं च जनकीयदलं प्रख्यापितम्

अरुणाचलप्रदेशे नूतनसर्वकाराय मार्गः व्यक्तः। 

नवदिल्ली > राष्ट्रपतिशासनं वर्तमाने अरुणाचल्प्रदेशे नूतनसर्वकाररूपवत्करणकार्यविधिं विरुद्ध्य स्वीकृताम् अभिवृत्तिं सर्वोच्चन्यायालयः  निराकुरुत। एतेन तत्र नूतनसर्वकाराय मार्गः प्रकाशितः।
अरुणाचलप्रदेशे राष्ट्रपतिशासनं निराकर्तुं राष्ट्रपतिं न्यवेदयितुं केन्द्रमन्त्रिसभया निश्चितमासीत्। कोण्ग्रस्दलविमतस्य कलिखो पुलस्य नेतृत्वे सर्वकाररूपवत्करणाय प्रयत्न एव अरुणाचले वर्तते।

अन्तर्जाल-राष्ट्रिय- कार्षिकविपणिः एप्रिल् १४ दिनाङ्के।

सेहोर् (मध्यप्रदेशम्) > राज्येषु सर्वत्र उत्तमगुणयुक्तानि कार्षिकोत्पन्नानि विक्रयणाय केन्द्रसर्वकारेण आयोजिता अन्त्रर्जालविपणिः एप्रिल् मासस्य १४ दिनाङ्के आरप्स्यते इति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रख्यापितः। विविधकार्षिकक्षेम पद्धति द्वारा २०२२ वर्षात् पूर्वं कृषकाणां आयः द्विगुणितम् भविष्यति। विविधानां राज्यानां ५८५ कार्षिक वितरणकेन्द्रान् अन्तर्जालेन बद्ध्वा जंगमदूरवाणी द्वारा अधिक मूल्यम् यत्र लभते तत्र विक्रयणस्य संविधानं भवति एतत् I वर्षद्वयाभ्यन्तरे एतस्य प्रथमघट्टस्य पूर्तिः भविष्यति ।

पट्याल न्यायालयं प्रति अभिभाषकानां पथसञ्चलनम्। 

  नव दिल्ली >उच्चोत्तर न्यायालयस्य निदेशान् विगणयन् पाट्याल  न्यायालयं प्रति अभिभाषकाः प्रतिषेध-पथसञ्चलनम् कृत बन्तः I गतदिने न्यायालय चत्वरे जायमाने घटनायाः कारणभूतस्य अभिभाषकस्य नेतृत्वे एव प्रकटनम् अभवत् । तस्मिन् समये न्यायालय: एस् ए आर् गीलानेः जाम्यावेदनं परिगणयन् आसीत्। प१चात् आवेदनं निरस्तम्। भारतविरुद्धमुद्रावाक्यघोषणमेव गीलाने: उपरि आरोपितः दोष: ।
भारत विरुद्ध संघानां प्रवर्तना नि निरोधनी यानि, जे एन् यु पिध !, जे एन् यु कृते दीय मानं साहाय्यादि कं निरोधनीयम, जे एन् यु मध्ये राष्ट्रद्रोहप्रवर्तनानि एव सन्ति इत्यादीनि प्रधानमुद्रावाक्यानि आसन् । मुद्रावाक्यानि उद्‌घोषयन् अभिभाषकाः न्यायालयस्य पुरतः प्रतिषेधं अकुर्वन् । समुचितरीत्या नीतिनिर्वहणाय अभिभाषकाः एतादृशप्रर्वतनेभ्यः प्रतिनिवर्तनीया: भवेयुः इति गतदिने न्यायालयेन अभिप्रेतम्  आसीत्। अभिभाषका: प्रकोपनपरान् अभिप्रायान् मा कुर्यु: इत्यपि न्यायालयेन सूचितमासीत् । किन्तु एतत्सर्वं निराकृत्य एव अभिभाषकैः प्रतिषेध: कृतः ।

अरुणाचले नवीनमन्त्रिसभायाः अधिकारप्राप्तिः। 

इट्टानगरं >अरुणाचल्प्रदेश् राज्ये कोण्ग्रस् दलस्य विमतपक्षनेता कलिखो पुल् नूतनमुख्यमन्त्रिरूपेण अधिकारं प्राप्तवान् । केन्द्रमन्त्रिसभायाः आदेशानुसारं ह्यः राष्ट्रपतिशासनं निराकृतमासीत्  ।
 ६०अङ्गयुक्तसभायां कोण्.विमतैः भाजपासामाजिकैः सहितं ३१ सामाजिकानां समर्थनं कलिखोवर्याय अस्ति।

शोभनपचनवातकपद्धतेः अद्य शुभारम्भः । 

कोच्ची > नालिकया गृहाणि प्रति पचनवातकं प्राप्यमाणा शोभनपचनवातकपद्धतिः (स्मार्ट् ग्यास्) नामिका सिटि ग्यास् पद्धतिः दक्षिणभारते इदंप्रथमतया अद्य प्रारभते। कलमश्शेरी सर्वकारीयारोग्य कलालये केरलमुख्यमन्त्रिणा उम्मन् चाण्टिवर्येण उद्घाटनं क्रियते।
इन्ड्यन् ओयिल् कोर्परेषन् तथा अदानि ग्यास् च मिलित्वा संरम्भः ऐ ओ ए जि कम्पनी अस्ति अस्य प्रायोजकाः।
  दंडगोलपचनवातकमपेक्ष्य सुरक्षितमस्ति नालिकावातकम्। तथा न्यूनमूल्यं च भवति।

Friday, February 19, 2016

वन्दे संस्कृतमातरम् ।

मुल्लकर रत्नाकरः संस्कृताध्यापक समितेः समापनसभा प्रौढ-गंभीरभाषाणेन उद्घाटति।



विवाद द्वीपे चैनाया: मिसैल् विन्यासः ।


बैजिङ् >दक्षिणचैनासमुद्रस्य वुडिनामके विवाद द्वीपे चैना दीर्घदूर विमानवेधमिसैल् अस्थापयत् ।
अष्टमिसैल् शस्त्राणि रडार् सौकर्यं च अस्थापयत् इति उपग्रहचित्रेभ्यः व्यक्तमिति पाश्चात्यमाध्यमैः सूचितम्। मेखलायाः सीमाविषयिकतर्कस्य परिहाराय कियाविधि: स्वीकरणीया इति अमेरिकायाः राष्ट्रपतिना बराक् ओबामया पूर्वम् अभिप्रेतम् आसीत्I ततः अग्रिमदिने एव चैना २०० कि .मि पर्यन्तं आक्रमणयोग्यानि मिसेल्शस्त्राणि अस्थापयत् । किन्तु चैनया आरोपणमिदं निरस्तम्।

दक्षिणकोरियाराष्ट्रम् आक्रमितुं सज्जा भवेत्- किं जोड़्ड़्

सोल > दक्षिण कोरियाराष्ट्रस्य आक्रमणाय सज्जा करोतु इति उत्तरकोरियाराष्ट्रस्य एकाधिपतिः
किं जोड़्ड़् उन् नेन व्यक्तः इति दक्षिणकोरियाराष्ट्रस्य गोप्यसंघस्य विज्ञापनः । अण्वायुध परीक्षणात्परम् उत्तरकोरियराष्ट्रस्य गूढचर्चायां उपस्थितः सेनूरिसंस्थानेतेन व्यक्तः इयं वार्ता।
किं जोड़स्य आज्ञानुसृत्य तस्य गोप्यसंस्थाः, दक्षिणकोरियाराष्ट्रं प्रति      सैबर् आक्रमणं कर्तुं सुसज्जा भवेत् इति  विज्ञापनः।
उत्तरकोरिया इतपरं  दक्षिणकोरियां प्रति आक्रमणं कृतः । किन्तु उत्तरकोरियाराष्ट्रस्य पद्वतिः किमिति वक्तुं न शक्यते। पद्धतिमधिकृत्य किमपि  स्पष्टीकृतः सेनूरि वक्तेन । कोरियाद्वयाणां स्वस्थजीवनाय प्रेरणा कृतः। नो चेत् युद्धाय सज्जा भवेत् इति उत्तरकोरिया एकाधिपतिना अवदत्। उत्तरकोरियायाः हैट्रजन् बोंब् प्रयोगस्य निरोधनप्रचरणात्परम् च दक्षिणकोरियेन बहवः कोलाहलः अस्ति चेत् युद्धमेव फलमिति उत्तरकोरियायाः भीषणिः ।

 राष्ट्रप्रेममभिवर्धयितुं केन्द्रसर्वकारः ;विश्वविद्यालयेषु देशीयपताका उन्नेतव्या।

नवदिल्ली  युवकेषु राष्ट्रप्रेमम् अभिवर्धयितुं विश्वविद्यालयेषु राष्ट्रपताका निश्चयेन उन्नेतव्या इति केन्द्रसर्वकारस्य निर्देशः।४६ विद्यालयानां उपकुलपतिभिः साकं मानवशेषिविभवमन्त्रिणी स्मृति इरान्या कृतायां चर्चायामयं निर्णयः। २०७ पादपरिमितं ध्वजं संस्थाप्य तस्मिन् पताका उन्नेतव्या।
जेएन् यू विश्वविद्यालये भारतविरुद्धमुद्रावाक्यघोषणानन्तरं सञ्जातेषु विषयेषु रजधानीनगरे प्रक्षुब्धे एव केन्द्रसर्वकारस्य अयं निश्चयः।

Thursday, February 18, 2016

केरलसंस्कृताध्यापकसमित्याः राज्यस्तरीयसम्मेलनम् आरब्धम्।

कविना गिरीष्पुलियूर् महोदयेन  कृतम् मुख्यभाषणम् । 'संस्कृताभिमानिनः भाषणम्‌'
कोच्ची > केरलेषु संस्कृत-शिक्षामण्डले सारभूतैः योगदानैः संस्कृतप्रचारणे तथा संस्कृताध्यापकानां योगक्षेमे च अनुस्यूतं प्रवर्तमानायाः केरल संस्कृताध्यापक-फेडरेषन् नामिकायाः संस्थायाः ३८तमं राज्यस्तरीयसम्मेलनं जन्मभूमौ कोल्लं नगरे फिब्र. १८,१९ २० दिनाङ्केषु प्रचलिष्यति। उद्घाटनसम्मेलनेन सह प्रतिनिधि-सांस्कृतिक- विद्याभ्यास- संस्कृत-सेवननिवृत्तादरण- सार्वजनीनसम्मेलनानि एषु दिनेषु आयोजितानि।
जिल्लापञ्चायदध्यक्षा के जगदम्मा उद्घाटनं करोति।

१८ प्रभाते नववादने राज्याध्यक्षः वेणु चोव्वल्लूर् वर्यः पताकोन्नयनम् अकरोत्। ततः प्रवृत्तमानं सम्मेलनं जिल्लापञ्चायदध्यक्षा के जगदम्मा उद्घाटनम् अकरोत्। दशवादने प्रतिनिधिसम्मेलनं भूतपूर्वः राज्यस्तरीयकार्यदर्शिप्मुखः कटय्कोट् सुरेन्द्रः उद्घाटयिष्यति। अनन्तरं नूतनशासनसमित्याः निर्वाचनकार्यक्रमाणि अभवन्।
६वादने सांस्कृतिकसम्मेलनं कोल्लं नगरसभायाः उपाध्यक्षया विजया फ्रान्सिस् वर्यया उद्घाटनं करिष्यते।तस्मिन्नवसरे प्रशस्तः कविः गिरीष् पुलियूर् मुख्यभाषणं करिष्यति। तत्र विविधमण्डलेषु लब्धपुरस्काराः अध्यापकप्रतिभाः समादरिष्यन्ते।
१९ दिनाङ्के १० वादने विद्याभ्यास-संस्कृतसम्मेलने भारतसंसदङ्गः एन् के प्रेमचन्द्रः उद्घाटकः भविष्यति। देवस्वं बोर्ड् समित्यध्यक्षः प्रयार् गोपालकृष्णः मुख्यभाषणं करिष्यति। ११.३० वादने सेवननिवृत्तानाम् अध्यापकानां कृते आदरः।द्विवादने आरभ्यमानं सार्वजनीनसम्मेलनं  केरलस्य गतागतमन्त्री तिरुवञ्चूर् राधाकृष्णः उद्घाटनं करिष्यति। नियमसभासामाजिकः मुल्लक्कर रत्नाकरः मुख्यभाषणं करिष्यति।
  २०प्रभाते दशवादने राज्यसमित्याः उपवेशनं भविष्यति।

काश्मीरदेशस्य स्वतन्त्रतायै जावद्पूर् विश्वविद्यालये भित्तिपत्रिकाः

कोलक्कता >   अफ्सल् गुरुम् अनकूल्य मुद्रावाक्यानन्तरं जावद् विश्वविद्यालये  काश्मीरस्य मणिपूरस्य नागालान्डस्य च स्वतन्त्रतायै  भित्तिपत्रिकाः। "काश्मीरस्य स्वतन्त्रता, मणिपूरस्य स्वतन्त्रता, नागालान्टस्य स्वतन्त्रता वयं इच्छामः" इत्यस्ति पत्रिकायाम्। भित्तिपत्रिकाः सर्वे ' राडिक्कल्' इति नाम्ना भवति।
किन्तु अस्यां घटनायां भागभागित्वं न भवेत् इति विविधैः विद्यार्थि दलैः उक्तम्। विश्वविद्यालये  अनिष्टघटनामधिकृत्य छात्रसंघानां नेतृभिः सह  उप कुलपतिः चर्चां कृतवान्। ह्यः कलालये अफ्सल्गुरुम् अनुकूल्य छात्रैः मुद्रवाक्यानि उक्तानि। विषयेऽस्मिन्  रक्षीपुरुषाणां साहाय्यं विना  परिहारः करिष्यते इति  उप कुलपतिना उक्तम्।

रष्यायाः मिसैल् आक्रमणेन मृतानां संख्या ५०

अमान् > आभ्यन्तर युद्धेन दूयमानायां सिरियायां रष्यायायाः मिसैल्आक्रमणेन पञ्चाशत् जनाः मृताः। मृतेषु सामान्यजनाः आतुरालयस्य उद्योगिनः च सान्ति। अलेप्पो,असास् नगरयोः द्वौ विद्यालयौ, पञ्च आतुरालयाः च भग्ना: .। ऐक्यराष्ट्रसभया इदं कृत्यम् अपलपितम्। राज्यान्तर-नियमस्य लङ्घनमेवेदम् इति अभिप्रेति च। अस्माभिः भीकराः लक्षीकृताः न सामान्यजनाः इति रष्यया उच्यते।
साहिती-पुरस्काराः वितरिताः
  
भारतस्य सुख्यातया सारस्वत-संस्थया साहित्य-अकादम्या विभिन्न-भारतीय-भाषाभ्यः प्रतिवर्षं प्रदीयमानाः ऐषमः स्वीयाः  साहित्यिक-पुरस्काराः चितेभ्यः कवि-लेखकेभ्यः नवदिल्ल्यां  अद्य वितरिताः | एतेषु चितेषु अन्यतमेन  संस्कृत-कविलेखकेन  डो.रामशंकर-अवस्थि-वर्येण साकं प्रतिपक्षं [मासस्य प्रथमे तृतीये च शनिवासरे] रात्रौ सार्ध-नववादने दिल्ल्यां राजधानी-वाहिकातः [ ६६६किलो-हर्त्टज्-मित्या ] प्रसार्यमाणस्य अर्धहोरावधिकस्य “संस्कृत-सौरभम्”-इति श्रव्य-पत्रिका-कार्यक्रमस्य कृते अद्य साक्षात्सम्भाषणस्य ध्वन्यंकनं सम्पन्नम् | अत्र साक्षात्-सम्भाषमाणः संस्कृत-कविलेखकः   डो.रामशंकर-अवस्थि-वर्यः अब्रवीत् यत् संस्कृत-विद्यायाः समुपासकोsसौ भगवत्याः सीतायाः अनुकम्पया कविकौशलं बिभर्ति | असौ "वनदेवी" इति स्वीय-संस्कृत-महाकाव्यस्य कृते पुरस्कारमेनम् अलभत | स्वीय-महाकाव्ये तेन भगवती सीता "वनदेवी"-रूपेणप्रतिष्ठापितास्ति | कार्यक्रम-संचालकेन डो.बलदेवानन्द-सागरेण पृष्टः अवस्थि-महोदयः न्यगादीत् यत् पारम्परिक-पद्धत्या नाधीतोऽपि सः सारल्येन भगवत्याः अनुग्रहेण कवयितुं पारयति |
कार्यक्रमोsयं फ़रवरी-मासस्य विन्शे दिनाङ्के शनिवासरे [ २०-०२-२०१६ ] रात्रौ सार्धनववादने श्रोतुं शक्यते |

प्राणसङ्कटे अपि अवयवदानसन्नद्धः युवकः।

बंगलुरु >दुर्घटनायां मृतप्रायः अपि बंगलुरु तुमाकुरु स्वदेशीयः हरीष् नञ्चप्पः प्राणरक्षार्थं न रोदिति स्म। परं यावच्छक्यं स्वस्य अवयवान् गृहीतुं भिषग्वरादिरक्षकान् उद्बोधयन्नासीत्।
बंगलुरु नगरस्थे वैयक्तिकस्थापने कर्मकरः हरीष् नञ्चप्पः स्वबैक्याने गृहात् कर्मस्थानं गच्छन्नासीत्। मरणं 'ट्रक्' यानस्य रूपं घृत्वा आगतम्।  किन्तु रक्षकान् स एवमेव अवोचत्। मत्तः यावच्छक्यम् अवयवान् स्वीकुर्वन्तु, अन्येषां प्राणरक्षार्थमुपकरिष्यन्ति। किन्तु दुर्घटनायां छिन्नभिन्नशरीरस्य तस्य नेत्रद्वयमेव उपकारितम्। अन्येषामवयवानां दोषाः संजाताः।

अक्बर् कक्कट्टिल् दिवंगतः।

कोष़िक्कोट् > केरलस्य प्रमुखःसाहित्यकारः अक्बर् कक्कट्टिल् (६८)कोष़िक्कोट् वैयक्तिकातुुरालये दिवंगतः। संवत्सरं यावत् रोगपीडितः आसीत्। 
 सामान्यजनानां चिन्ताः जीवितप्राराब्धाश्च अस्य कथाविषयी भूताः। अनेन विरचिताः अध्यापककथाः प्रसिद्धाः भवन्ति। केरल साहित्य अकादमी पुरस्कारात् प्रभृति अनेके पुरस्काराः एनं प्राप्तवन्ताः।

Wednesday, February 17, 2016

भारतविरुद्ध वाक्यघोषणेन विश्वविद्यालयस्य भूतपूर्व अध्यापकः ग्रहीतः।
नवदिल्ली > भारतलोकसभायाः आक्रमणात् मृत्युदण्डेन  मारितः अफसल् गुरोः अनुकूलतया कृता भारतविरुद्ध वाक्यघोषणे दिल्ली विश्वविद्यालयस्य भूतपूर्व अध्यापकः प्रोफ.एस्. आर्. गीलानी आरक्षकैः ग्रहीतः। विशदज्ञानाय
आरक्षकालयं नीतः। राज्यद्रोहः, दोषतरा गूढालोचना, अनियमेन सङ्धीकरणं च तस्य उपरि आरोपितः प्रथमानुसन्धानपत्रविवरणम् (FIR ) लिखितम्।

ऐक्यराष्ट्रसभायाः भूतपूर्व महाकार्यदर्शी बुट्रोस् घाली दिवंगतः।

कैरो>  ९३ वयस्कस्य  अस्य अन्तिमनिमेषाः कैरो नगरस्य आतुरालये आसीत्। अरब् वंशजो अयं ईजिप्तस्य नागरिकः आसीत्। १९९२ वर्षे महाकार्यदर्शी इति पदवीं प्राप्तवान्‌।

 स्वमुखछाया चित्रीकरणवेलायां जलबन्धे पतित्वा द्वौ छात्रौ मृतौ।

नासिक् - महाराष्ट्रायां नासिक् वाल्देवी जलबन्धस्य उपरि स्थित्वा सेल्फी नामकस्वामुखछायाचित्रचित्रीकरणाभ्यन्तरे जले पतित्वा द्वौ कलालयछात्रौ मृतौ। विनोदयात्रार्थमागतेषु दशछात्रेषु सौरव् जगन्नाथ (१८),अजिन्क्य बावुसाहेब् (१८)इत्येतौ एव जलसमाधिं प्राप्तवन्तौ।

यु.एस्.राष्ट्रम् आक्रमितुं ऐ.एस् आतंकवादिनां पद्धतिः -
 सि.ऐ.ए अध्यक्षः।

वाषिड़्टण् > यु एस् राष्ट्रे पुनः भीकराक्रमणं भविष्यति इति गूढसंघानां विज्ञापनम् । गत नवंबर मासे पारीस् राष्ट्रे भवितः भीकराक्रमणस्य कारणं गुप्तान्वेषणसंघस्य जाग्रताराहित्यस्य फलमेव   इति सि ऐ ए (सेन्ट्रल  इन्टलिजन्स् एजनसि)  अध्यक्षेण जोण् ब्रेननेन उक्तः।

 यद्यपि पारीस् आक्रमणानन्तरं इस्लामिक् स्टेट् भीकाराणां पद्धदीनामधिकृत्य अवगमनाय क्लेशमस्ति तथापि ते यु एस् राष्ट्रम् आक्रमितुं सज्जा भवेत् इति शङ्‌का नास्ति; ब्रननेन अवदत्। आतंकवादिनः
नूतन आशयविनिमय-संविधानानि उपयुज्यन्ते। एतस्य भेदनं दुष्करं  भवतीति रहस्यान्वेषणसंधस्य मतम्।

पारीस् भीकराक्रमणे  १३० जनाः हताः। तेषु अष्टेषु मृत्यु योध्रृषु सप्त संख्याकाः फ्रञ्च् पौराः अभवन्। "ते सिरिया राष्ट्रं गत्वा शिक्षणं प्राप्तवन्तः- इति सि ऐ ए अध्यक्षः अवदत्।  पाश्चात्यराष्ट्र-इस्लामिकराष्ट्रयोः मध्ये विद्वेषमुद्पाद्य  भीकरप्रवर्तनानि  आयोजयितुमेव आतंकवादिनां श्रमः। ,

यु एस् ऐतेषु राज्येषु अधीशत्व स्थपनाय श्रमं कुर्वन्तीति असत्य प्रचारणमपि भवेत्। ऐ एस् सङ्घः इदानीं रासायुधशक्तियुक्ताः, तेषां पाश्चात्यगमनं निवारणीयं च भवेत् इति ब्रेननेन उक्तः ।


कोलञ्चेरि क्रैस्तवदेवालये विभागद्वयस्यापि आराधनानुमतिः।
 
नवदिल्ली >ओर्तडोक्स्, याकोबाय विभागयोः विवादैः अस्वस्थभूते कोलञ्चेरि क्रैस्तवदेवालये (केरलं) विभागद्वयस्यापि तात्कालिकाराधनासौकर्याय सर्वोच्चन्यायालयेन निर्दिष्टः।

केरलसंस्कृताध्यापकसमित्याः राज्यस्तरीयसम्मेलनं श्वः आरभते।

कोच्ची > केरलेषु संस्कृत-शिक्षामण्डले सारभूतैः योगदानैः संस्कृतप्रचारणे तथा संस्कृताध्यापकानां योगक्षेमे च अनुस्यूतं प्रवर्तमानायाः केरल संस्कृताध्यापक-फेडरेषन् नामिकायाः संस्थायाः ३८तमं राज्यस्तरीयसम्मेलनं जन्मभूमौ कोल्लं नगरे फिब्र. १८,१९ २० दिनाङ्केषु प्रचलिष्यति। उद्घाटनसम्मेलनेन सह प्रतिनिधि-सांस्कृतिक- विद्याभ्यास- संस्कृत-सेवननिवृत्तादरण- सार्वजनीनसम्मेलनानि एषु दिनेषु आयोजितानि।
१८ प्रभाते नववादने राज्याध्यक्षः वेणु चोव्वल्लूर् वर्यः पताकोन्नयनं करिष्यति। ततः प्रवृत्तमानं सम्मेलनं जिल्लापञ्चायदध्यक्षा के जगदम्मा उद्घाटनं करिष्यति। दशवादने प्रतिनिधिसम्मेलनं भूतपूर्वः राज्यस्तरीयकार्यदर्शिप्मुखः कटय्कोट् सुरेन्द्रः उद्घाटयिष्यति। अनन्तरं नूतनशासनसमित्याः निर्वाचनकार्यक्रमाणि भविष्यन्ति। ६वादने सांस्कृतिकसम्मेलनं कोल्लं नगरसभायाः उपाध्यक्षया विजया फ्रान्सिस् वर्यया उद्घाटनं करिष्यते।तस्मिन्नवसरे प्रशस्तः कविः गिरीष् पुलियूर् मुख्यभाषणं करिष्यति। तत्र विविधमण्डलेषु लब्धपुरस्काराः अध्यापकप्रतिभाः समादरिष्यन्ते।
१९ दिनाङ्के १० वादने विद्याभ्यास-संस्कृतसम्मेलने भारतसंसदङ्गः एन् के प्रेमचन्द्रः उद्घाटकः भविष्यति। देवस्वं बोर्ड् समित्यध्यक्षः प्रयार् गोपालकृष्णः मुख्यभाषणं करिष्यति। ११.३० वादने सेवननिवृत्तानाम् अध्यापकानां कृते आदरः।द्विवादने आरभ्यमानं सार्वजनीनसम्मेलनं  केरलस्य गतागतमन्त्री तिरुवञ्चूर् राधाकृष्णः उद्घाटनं करिष्यति।नियमसभासामाजिकः मुल्लक्करा रत्नाकरः मुख्यभाषणं करिष्यति।
  २०प्रभाते दशवादने राज्यसमित्याः उपवेशनं भविष्यति।

भारतविरुद्ध वाक्यघोषणेन विश्वविद्यालयस्य भूतपूर्व अध्यापकः ग्रहीतः।
नवदिल्ली > भारतलोकसभायाः आक्रमणात् मृत्युदण्डेन  मारितः अफसल् गुरोः अनुकूलतया कृता भारतविरुद्ध वाक्यघोषणे दिल्ली विश्वविद्यालयस्य भूतपूर्व अध्यापकः प्रोफ.एस्. आर्. गीलानी आरक्षकैः ग्रहीतः। विशदज्ञानाय
आरक्षकालयं नीतः। राज्यद्रोहः, दोषतरा-गूढालोचना, अनियमेन सङ्धीकरणं च तस्य उपरि आरोपितः प्रथमानुसन्धानपत्रविवरणम् (FIR ) लिखितम्।

ऐक्यराष्ट्रसभायाः भूतपूर्व महाकार्यदर्शी बुट्रोस् घाली दिवंगतः।

कैरो>  ९३ वयस्कस्य  अस्य अन्तिमनिमेषाः कैरो नगरस्य आतुरालये आसीत्। अरब् वंशजो अयं ईजिप्तस्य नागरिकः आसीत्। १९९२ वर्षे महाकार्यदर्शी इति पदवीं प्राप्तवान्‌।

 स्वार्थछायाचित्रीकरणवेलायां जलबन्धे पतित्वा द्वौ छात्रौ मृतौ।

नासिक् - महाराष्ट्रायां नासिक् वाल्देवी जलबन्धस्य उपरि स्थित्वा सेल्फी नामकस्वार्थछायाचित्रचित्रीकरणाभ्यन्तरे जले पतित्वा द्वौ कलालयछात्रौ मृतौ।विनोदयात्रार्थमागतेषु दशछात्रेषु सौरव् जगन्नाथ (१८),अजिन्क्य बावुसाहेब् (१८)इत्यतौे एव जलसमाधिं प्राप्तवन्तौ

यु एस् राष्ट्रम् आक्रमितुं ऐ एस् आतंगवादिनां पद्धतिः -
 सि.ऐ.ए अध्यक्षः।

वाषिड़्टण् > यु एस् राष्ट्रे पुनः भीकराक्रमणं भविष्यति इति गूढसंघानां विज्ञापनम् । गत नवबंर मासे पारीस् राष्ट्रे भवितः भीकराक्रमणस्य कारणं गुप्तान्वेषणसंघस्य जाग्रताराहित्यस्य फलमेव   इति सि ऐ ए (सेन्ट्रल  इन्टलिजन्स् एजनसि)  अध्यक्षेण जोण् ब्रेननेन उक्तः।

 यद्यपि पारीस् आक्रमणानन्तरं इस्लामिक् स्टेट् भीकाराणां पद्धदीनामधिकृत्य अवगमनाय क्लेशमस्ति तथापि ते यु एस् राष्ट्रम् आक्रमितुं सज्जा भवेत् इति शङ्‌का नास्ति; ब्रननेन अवदत्। आतंकवादिनः
नूतन आशयविनिमय-संविधानानि उपयुज्यन्ते। एतस्य भेदनं दुष्करं  भवतीति रहस्यान्वेषणसंधस्य मतम्।

पारीस् भीकराक्रमणे  १३० जनाः हताः। तेषु अष्टेषु मृत्यु योध्रृषु सप्त संख्याकाः फ्रञ्च् पौराः अभवन्। "ते सिरिया राष्ट्रं गत्वा शिक्षणं प्राप्तवन्तः- इति सि ऐ ए अध्यक्षः अवदत्।  पाश्चात्यराष्ट्र-इस्लामिकराष्ट्रयोः मध्ये विद्वेषमुद्पाद्य  भीकरप्रवर्तनानि  आयोजयितुमेव आतंकवादिनां श्रमः। ,

यु एस् ऐतेषु राज्येषु अधीशत्व स्थपनाय श्रमं कुर्वन्तीति असत्य प्रचारणमपि भवेत्। ऐ एस् सङ्घः इदानीं रासायुधशक्तियुक्ताः, तेषां पाश्चात्यगमनं निवारणीयं च भवेत् इति ब्रेननेन उक्तः ।


कोलञ्चेरि क्रैस्तवदेवालये विभागद्वयस्यापि आराधनानुमतिः।
 
नवदिल्ली >ओर्तडोक्स्, याकोबाय विभागयोः विवादैः अस्वस्थभूते कोलञ्चेरि क्रैस्तवदेवालये (केरलं) विभागद्वयस्यापि तात्कालिकाराधनासौकर्याय सर्वोच्चन्यायालयेन निर्दिष्टः।

Tuesday, February 16, 2016

विद्यालयसमीपे गोलिकाप्रहारः।

कोल्कोत्ता > कोल्कत्ता नगरे लोरेट्टो विद्यालयस्य समीपे गोलिकाप्रहारः। प्रातः द्वि चक्रिकाभ्याम् आगताभ्यां अज्ञातृभ्यां भीकरावस्था सृष्टा। एकः यात्रिकः व्रणितः। सुरक्षा देलेन इदानीं परिसरः रक्षितः अस्ति।

स्वच्छतायां मैसूर् नगरं प्रथमम्।

नवदिल्ली > स्वच्छतागणनायां भारतस्य नगरेषु मैसूर् नगरं प्रथमश्रेण्याम् अस्ति।Quality Council Of India नामिकया संस्थया कृतानुसन्धानस्य फलमेव एतत्‌। द्वितीय वारमेव भवति मैसूरस्य इयं स्थानप्राप्तिः।
द्वितीयं स्थानं चण्डिघट्टस्य तिरुचिरप्पल्ली, दिल्ली विशाखपट्टणं च प्रथमासु पञ्चमश्रेणीषु अन्तर्भवति । ७३ नगरेषु कृतानुसन्धाने केरळं ५५ तमं भवति। केन्द्रमन्त्रिणा वेङ्कय्यनायिडुना फलं प्रख्यापितम्। प्रथानमन्त्रिणा  नरेन्द्रमोडिना २०१४ तमे आरब्धा इयं स्वच्छ भारतयोजना।

 जे.एन् .यू विषयः प्रक्षुब्धः।

नवदिल्ली - मृत्युदण्डितः अफ्सल् गुरुनामकः जवहर्लाल् नेह्रु विश्वविद्यालये (जे एन् यू) अनुस्मृतः इत्यस्मात् विश्वविद्यालयपरिसरः प्रक्षुब्धः जातः। विद्यार्थिनेता कनय्यकुमारः  राष्ट्रद्रोहापराधित्वेन आरक्षकैः गृहीतः इति कारणेन राजधानीनगरं आन्दोलन संघर्षेषु निमग्नमभवत्।
    कनय्यकुमारस्य मोचनमुन्नीय विद्यार्थिनः अनिश्चितकालान्दोलनम् आरब्धवन्तः। अफ्सल् गुरु अनुस्मरणाय ऐ.एस् संस्थायाः साहाय्यं लब्धमित्यारोप्य आसीत् संघर्षस्य प्रारंभः।

स्त्रीवेषंधृत्वा रक्षां प्राप्तुं ऐ.एस्.भीकरैः कृतः श्रमः पराजितः। 

बाग्दाद् > इराख् सैन्येन रिमाददेशे बन्धनस्थाः  ऐ.ऐस् आतङ्कवादिनः  तु स्वरक्षार्थं  प्रच्छन्नवेषं स्वीकृत्य कृतः श्रमः विफलोऽभवत्। स्त्रीवेषान् स्वीकृतान् नव आतङ्कवादिनः रिमादियायाः प्रान्तप्रदेशस्थेन सैन्यकेन बन्धिताः। ऐ.एस् भीकरैः आक्रमितः अंबर् प्रविश्यायाः राजधानीं, रमादीदेशं संपूर्णतया मोचितम् इति इराख् सैन्येन उक्तम्। शिष्टान् सर्वान् आतङ्कवादिनः ग्रहणाय सैन्येन तीव्रश्रमः क्रियते।
रमादी   इदानीं सैन्यस्य पूर्णाऽधीना भवति इति इराख्  सैन्यः अवदत्।

 ओ.एन् .वि वर्यस्य स्मरणार्थं प्रतिमा कलाग्रामश्च।

अनन्तपुरी - दिवंगतस्य कैरलीकवेः ओ एन् वि कुरुप् महोदयस्य स्मरणार्थं राजनगर्यां तस्य प्रतिमां स्थापयिष्यति। जन्मदेशे चवरायां ओ एन् वि कवितानां दृश्याविष्कारेण कलाग्रामं च स्थापयिष्यति। केरलनियमसभायां संवृत्ते अनुस्मरणसम्मेलने मुख्यमन्त्रिणा एवमुद्घोषितम्।

Monday, February 15, 2016

प्रतिषेधानां मध्ये च पाकिस्थानाय युद्धविमानं  विक्रीयते।
वाषिड़्टण् > भारतस्य प्रतिषेधमवगण्य पाकिस्थानं प्रति एफ् - 16 युद्धविमानानां विक्रये एव यु.एस् राष्ट्रस्य श्रद्धा। पाकिस्थानस्य भीकरवादविरुद्ध प्रवर्तनानि  उचितसमये एव रोधनीयमिति यु.एस् राष्ट्रम्।
अनेन युद्धविमानविक्रयेण सह पाकिस्थानस्य भीकरवादविरुद्ध-प्रवर्तनम् ,अपि च आतङ्कवादिनः उन्मूलनाशं च कर्तुं सहायकः इति यू.एस्‌।
पाकिस्थानाय एफ्- 16 युद्धविमानविक्रयणाय यु.एस् राष्ट्रेण निश्चितः। अपि च बहूनि युद्धोपकरणानि विक्रीयन्ते इति च दुःखात्मकं भवेत् इति भारतेन उक्तम्।
७००दशलक्षं डोलर् मूल्यस्य  विमानानां विक्रयणाय यु.एस् शासनाधिकारिणा अनुमतिः दत्तः। यु.एस्  कोण्ग्रस् अधिकारिणां वाक्यानि विगण्य एवायं निश्चयः। पाकिस्थानराष्ट्रस्य  सुरक्षार्थम् इयं उचिता योजना स्वीकृता इति यु.एस् प्रतिरोध मन्त्रालयेन उक्तः।
दिनरात्रौ विभिन्नायाम् अन्तरीक्ष अवस्थायाम् उपयोक्तुं  सर्वथा उपकारकं भवेत् एफ् 16 युद्धविमानम्।

मुम्बय्यां 'मेक् इन् इन्डिया' वेदिकायां महती अग्निबाधा।

मुम्बई >मुम्बय्यां मेक् इन् इन्डिया वाराचरणमनुबध्य सम्पन्ने सांस्कृतिककार्यक्रमे महती अग्निबाधा सञ्जाता।जीवहानिः नाभवत्।गिर्गाव् चौपात्ति प्रदेशे ह्यः रात्रौ अमिताभ् बच्चन् वर्यस्य कवितावतरणानन्तरमेव अग्निबाधा सञ्जाता। २५००० परिमिताः जनाः भागभागित्वं गृहीतुमागतवन्तः ।किन्तु सर्वानपि अपनेतुम् अवसरः लब्धः।


अन्टार्टिकायां १.५ लक्षं पेन्ग्विन् पक्षिणः मृताः। 


सिडनी - पूर्वान्टार्टिकायां कोमण्वेल्त् अन्तःसमुद्रे महत्तरः हिमखण्डः स्थले कुटति स्म इत्यस्मात् पेन्ग्विन् पक्षिणां मरणावलिः सञ्जाता। १०० चतु.कि.मी. विस्तृतियुक्तः बि०९बि इति नामकः हिमखण्ड एव स्थले २०१०तमे स्थिरभूतः। आवासव्यवस्थायाः विनाशेन तेषां वंशनाशात् भीः जाता।

Sunday, February 14, 2016

संस्कृतमेलनं सम्पन्नम्। 
केरळम् तृश्शूर्> संस्कृतभारत्याः केरलराज्यस्य मध्यसम्भागस्य कार्यकर्तृमेलनं तृश्शूर् नगरे तेक्केमठे लक्ष्मीमण्डपे फेब्रुवरी मासे त्रयोदश (१३) दिनाङ्के शनिवासरे प्रातः दशवादनतः चतुर्वादनपर्यन्तम् अभवत्। अखिलभारतीयसङ्घटनामन्त्री श्री दिनेश् कामत् महोदयः मार्गदर्शनं कृतवान् । षष्ट्यधिकं कार्यकर्तारः उपस्थिताः आसन्।

काशमीरे पञ्च भीकराः सैन्येन हताः।

श्रीनगरम् > काश्मीरस्य कुप्वारा जनपदे सीमारेखायाः समीपे संवृत्ते संघट्टने पञ्च भीकरान् भारतसैन्यं हन्ति स्म। द्वौ भटावपि निहतौ। चौक्की बाल् प्रविश्यायां कस्मिंश्चित् गृहे भीकराःनिलीय वर्तमाना इति ज्ञात्वा एव सुरक्षासेना अत्र प्राप्ताः।

पाकिस्थानराष्ट्रम् भीकरराष्ट्रम् -बि. जे. पि.

न्यूदिल्ली > मुम्बै भीकराक्रमणस्य सूत्रधारः डेविड् कोल् मान् हेड्लेः वाक्यमनुसृत्य पाक्किस्थानं भीकरराष्ट्रत्वेन प्रख्यापनीयमिति बि. जे.पि  दलानां मतम् । तदर्थं नूतनकार्याणि नय तन्त्रेषु स्वीकरणीयानि । पाक्  गुप्तचराणां संस्थया आदड़्कवादीनां सीमलड़्घने प्रोत्साहनं करोतीति हेड्लेः उक्त्या व्यक्तः। लोकराष्ट्रणां मध्ये पाक्किस्तानं  निराकर्तुं भारतं  श्रद्धालुः भवेयमिति भा.ज.पा. दलस्य देशीयकार्यकर्ता सिद्धार्थनाथ सिंहेन उक्तः।
इस्रत् जहानायाः कलहमृत्युः निर्वाचनवेलायाम् अद्यतनविपक्षस्य अनुकूलं यथा, तथा परिणामयितुं ते ऐच्छन्। इस्रत् जहाना लष्कर् तोयिबायाः  'सन्नद्धमृत्युयोद्ध्री' इति हेड्लिना निर्दिष्टम्। गुजरात्त् देशे इस्रत् गोलिकाप्रहरणेन कारणं विना मारिता इति कुप्रचारः आसीत्।


 कविः ओ एन् वि कुरुप् दिवंगतः।

 अनन्तपुरी> कैरल्याः प्रियङ्करः ,केरलीयानां मनसि लब्धप्रतिष्ठः जनकीयकविः ओ एन् वि कुरुप् महाशयः (८४)हृदयाघातेन अनन्तपुर्यां वैयक्तिकातुरालये दिवंगतः।
ज्ञानपीठ-पद्मविभूषण-पद्मश्रीपुरस्कारैःआदृतः आसीत्। महाकविकालिदासस्य जीवनचरितमुपजीव्य विरचितम् उज्जयिनीकाव्यमवलम्ब्य तस्मै ज्ञानपीठपुरस्कारः दत्तः। कैरलीचलच्चित्रगानशाखायामपि अस्य योगदानं महत्तरमासीत्। १३ वारं उत्तमगानरचयितुः पुरस्कारेण आदृतः।त्रिवारं देशीयपुरस्कारमपि प्राप्तः। 
  ६० संवत्सराणां काव्यसपर्यया नाटक-परिस्थिति-मातृभाषा-संस्कृति-इत्यादिषु जीवनस्पर्शिषु विषयेषु अपि तस्य सर्गवैभवः व्यापृतः।विविधकलालयेषु अध्यापकवृत्तिं कृतवानयं गुरुश्रेष्ठः ।
अन्त्यसंस्कारक्रियाः श्वः भविष्यति।

Saturday, February 13, 2016

यत्र नार्यस्तु पूज्यन्ते।
जार्खण्डे स्त्रीणां कृते धनविनियोगपत्रम्।
राञ्चि> जार्खण्ड् नियमनिर्माणसभायां नारीणां क्षेममुद्दिश्य धनविनियोगपत्रम् अवतारयिष्यते। भारते प्रथमतया एव एतादृशी प्रस्तुति इति मुख्यमन्त्रिणा रघुबरदासेन उक्तम्।
परश्वः प्रस्तूयमाने धनविनियोगपत्रावतरणे स्त्रीणां क्षेमाय निर्मितमिदं पत्रं मुख्यमन्त्रिणा एव सभायां प्रस्तोष्यते। गतवर्षे राज्येषु कृतायां चर्चायामेव स्त्रीणां कृते धनविनियोगपत्रमिति आशयं जातम्।

'फ्री बेसिक्' योजनां समापयति - इति फेस् बुक्।
न्यूदिल्ली > अन्त्रर्जाल-समत्वस्य दृढीकरणाय ट्राय् द्वारा कृतेन विधिना ततःपरं जायमानविवादेन "फ्री बेसिक् " योजना समापयितुं फेस् बुक् अधिकृतैः निश्चितः। टेलिकों  संस्थायाः सहकरणेन फेस् बुकेन आविष्कृतां योजनां प्रति प्रारंभे एव विमर्शनानि आसन्।
फ्री बेसिक्स् द्वारा कानिचन वेब् सैट् स्थानानि निशुल्कानि प्राप्तानि शक्यन्ते। 'सर्वेभ्यः जनेभ्यः अन्तर्जालं लभ्यमानं भवेत्' इति  अन्तर्जाल समत्वस्य लक्ष्यम् ।
"रिलयन्स् कम्यूणिकेषन्स्" संस्थायाः सहकरणेन भारते फ्री बेसिक् इति योजनायाः प्रसारः निश्चितः आसीत्‌। किन्तु " टेलिकों रगुलेटरि अतोरटरि आफ् इन्ड्यायाः " विज्ञापनानुसारेण अन्तर्जालस्य लब्धये विविधानां शुल्कानां स्वीकारः रोधितः। एतेन एयर् टेल् स्य 'सीरो रेट्टिङ्' इत्यस्य  च विरामः भवेत्।
2014 तम वर्षादारभ्य इन्टर् नेट् ओर्ग मार्गेण सप्तादशराज्येषु फेस् बुक् लभ्यमानं भवेत्। विवादाभिमत-प्रकाशनात् परं  'फ्री बेसिक्' इति पुनर्नामकरणं कृतः ।  सर्वेषां सामान्यजनानां सहकरणार्थं टी वि-पत्रमध्यम द्वारा  प्रचारणं कुर्वदासीत्।


 क्षेमपद्धतिवर्षैः आयव्ययपत्रावतरणं केरले।

अनन्तपुरी > केरले निर्वाचनद्वारे तिष्ठति क्षेमपद्धतीनां वर्षैः मुख्यमन्त्रिणा उम्मन् चाण्टिमहाभागेन आयव्ययपत्रम् अवतारितम्। दारिद्र्यरेखाधःस्थितेभ्यः परिवारेभ्यः (बि पि एल्) निःशुल्कव्रीहीदानं प्रख्यापितम्।विपक्षदलैः आयव्ययपत्रावतरणं बहिष्कृतम्।

Friday, February 12, 2016

हनुमन्तप्पा वीरस्वर्गं प्राप्तवान्
न्यूदिल्ली > सियाचिन् देशे हिमपतनदुर्घटनात्  मुक्तः हनुमनन्तप्पा कोप्पाड् ( 35) षष्टे दिने मृतः। दिल्ली कन्टोण्मेन्ट् आर्. आर्. आतुरालये प्रभाते 11.45 वादने एव तस्य मृत्युः।  हनुमन्तप्पावर्यस्य जीवरक्षायै वैद्यकैः कठिनप्रयत्नः कृतः। तथापि  आन्तरिकावयवानां प्रवर्तनं स्थगितम् अभवत्। आन्तरिकावयवानां प्रवर्तनराहित्येन तस्य मृत्युः अभवत्।
कर्णाटकाराज्ये धार्वाड् स्वदेशिं हनुमन्तप्पां सोमवासरे हिमपातस्थलात् अरक्षत्। ३५ पादमितस्य हिमपातस्य अधोभागात् एव सः उद्धारयित्वा रक्षितः। प्रधानमन्त्री नरेन्द्रमोडी , भूतल सैनिकनेता दलबीर् सिंहः च हनुमन्तप्पां द्रष्टुम् आगतवन्तौ । हनुमन्तप्पा महोदयस्य परिवारः च दिल्ल्याम् आसीत्।

गुरुत्वतरङ्गं दर्शितः

वार्षिङ्‌टण् > १०० वर्षेभ्यः पूर्वं वैज्ञानिकः अल्बर्ट ऐन्स्टीन् महाभोगन उद्‌घुष्टं गुरुत्वतरङ्गस्य सान्निध्यम् आधुनिक शास्त्रज्ञैः प्रमाणीकृतम् । प्रपञ्चस्य उत्‍पत्तिम् आरभ्य जायमानेषु कार्या -कारणेषु प्रवेष्टुम् अनेन गवेषणफलेन शक्यते। यू.एस् नाषणल् सयन्स्फौण्डेषन् संस्थायाः वैज्ञानिकाः एव अस्मिन् विषये गवेषणम् अकुर्वन्। १३० कोटि प्रकाशवर्षात् दूरे वर्तमानयोः द्वयोः तमोगर्तयोः मिथः संधट्टनेन जातः तरङ्ग एव तैः परीक्षण शालायां निरीक्षितः। लेसर् इंटर् फेरोमीट्टर् ग्राविट्टेषन् वेव् ओब्सर्वेट्टरि (LIGO) परीक्षणशालायां प्रोट्टोण् एकस्य सहस्रांशाकारकं व्यत्ययं निर्मातुं तेन तरङ्गेन शाक्यते इति 'लगोयाः' नियुक्तो  निदेशकः डेविड् रयिट्य् महोदयः अवदत्।

Wednesday, February 10, 2016

जर्मनी राष्ट्रे रयिल् यानयोः अपघातः बहवः मृताः 


train-accident
बर्लिन्> जर्नीयोः  राष्ट्रे बवेरियायां रयिल् यानयोः दुर्घट्टने बहवः मृताः शताधिकाः व्रणिताः म्युनिक् देशेएव अपघातः जातः होर्किच्चन् देशतः होसन् हयिं प्रति  गच्छदासीत् यानमेव आपदि पतितम्। घट्टनस्य उग्र शक्त्या यानं तिर्यक्कृत्य पट्टिकातः पतितम् इति दृक्साक्षिणः वदन्ति दुर्घटनायां कति मृताः इति वक्तुं न शक्यते इति आरक्षकाः वदन्ति। मृतानां संख्या इतोऽपि  अधिकाः भवेत्। व्रणितानां अवस्था गुरुतरा वर्तते रक्षाप्रवर्तनानि अधुनापि प्रचलन्ति। यानान्तर्भागे यात्रिकाः बन्धिताः सन्ति।
छात्राः न आगच्छन्ति चेत् विद्यालयः छात्रान् अन्विष्य गमिष्यति।
 जयपूर > छात्रान् अन्विष्य विद्यालयः सञ्जरन्ति! ग्रामीणछात्राणां पठनार्थं जय्पूर् नगरस्य टाबर सोसैटी संस्थया अविष्कृता नूतना पद्धतिरियम्।
" स्कूल् ओपण् वील् " इति नाम्ना विद्यालयः ग्रन्थशाला च संभूय भवति एतत्। "सञ्जारविद्यालयस्य " प्रवर्तनोद्धाटनं मुख्यमन्त्रिणा वसुन्धरा राजा महाभागया कृतम्। प्रथमतया जय्पूर् जनपदे एव विद्यालयस्य प्रवर्तनम्। लूणिया वास् , गोणार् मण्डलाणां ग्रामीणानां तथा गार्डिया लोहार , गुमान्डु विभागानां मध्ये च प्रवर्तनाय उद्दिश्यते। सर्वकारीयशैक्षिक रङ्गे विविधेषु राज्येषु  पृष्ठतः अस्ति राजस्थानदेशः।
संस्कृतसंभाषण शिबिरम्।
केरळम् - तृश्शूर्>  तृश्शुर् नगरे पुनः दशदिनसम्भाषणशिबिरम् भविष्यति ।  चिन्मयमिषन्  भुवनेश्वरी मन्दिरे प्रातः १० वादनतः १२ वादन पर्यन्तम् । फेब्रुवरी १७ दिनाङ्के आरम्भ:।
पाकिस्तान् संसदि हिन्दुविवाहनियमः अङ्गीकृतः।
इस्लामबाद् > हिन्दु विवाहनियमस्य प्राथमिकदेयकं पाकिस्तानी संसद्समित्या ऐककण्ठ्येन अङ्गीकृतम्।अचिरादेव नियमो भविष्यति। एतदनुसृत्य विवाहवयः १८ भवति।पञ्च हैन्दवान् सभाङ्गान् अामन्त्र्य पर्यालोचनानन्तरमेव देयकं संसिद्धम्।
आगोलभीकरसंस्थानां नियन्त्रणं ऐ.एस्.ऐ द्वारा।

नवदिल्ली > आगोलतले जिहादीप्रवर्तनानां नियन्त्रणं ऐ एस् ऐ नामकेन पाक् चारसंघेन क्रियते इति न्यूयोर्क् टैम्स् दिनपत्रिकया निवेद्यते।इस्लामिक् स्टेट् संधटनायाः प्रारम्भ अपि अनेन संघेन कृतमिति पत्रिकायां प्रसिद्धीकृते लेखने प्रस्तूयते।अन्ताराष्ट्रमुजाहिदीन् प्रवर्तकेषु भूरिभागः सुन्नितीव्रवादिनः। ऐ.एस्.ऐ इत्यस्य साहाय्यं एतेभ्यः लभ्यते इत्यत्र प्रमाणमस्तीति लेखने उच्यते।
लोके अन्विष्टाः सर्वे भीकराः पाकिस्ताने सुरक्षिताः भवन्ति। हखानी श्रृङ्खलायाः नेता सिराजुदीन् हखानी तत्र स्वतन्त्रः।तालिबान्,अल् ख्वीयदा इत्यादयः ऐ एस् ऐ इत्यस्मात् साह्यं स्वीकुर्वन्ति।
  न्यूयोर्क् टैम्स् पत्रिकायाः उत्तराफ्रिक्कन् लेखिका कार्लोट्टा गाल् एव लेखनं सज्जीकृतवती।
संस्कृतसत्रं सम्पन्नम्।

पुदुच्‍चेरी> पुदुच्चेरीस्थेन श्री - अरविन्द - भारतीयसंस्कृति - संस्थानेन आयोजितः सप्तदिनात्मकः 'स्पन्दन' झ्याख्यः संस्कृतशिक्षणवर्गः सुचारुतया सम्पन्न:। असिन् शिक्षण वर्गे देश विदेशेभ्यः उपपञ्चाशत् प्रतिभागिनः संस्कृत शिक्षणार्थम् आगतवन्तः आसन्। संस्थानस्य निदेशकः डॉ. सम्पदानन्द मिश्रः वर्ग सञ्चालनमकरोत्। वर्गे अस्मिन् मन्त्रोच्चारणशिक्षणं,  संभाषणकौशलं, संस्कृते कथानिर्माण कौशलं, बालगीतनिर्माणकौशलं, व्याकरणज्ञानं, छन्दसां परिचयः इत्यादयः अनेके विषयाः योजिताः आसन्। अन्तर्जालस्य उपयोगेन संस्कृताध्ययनं इति विषयमपि सत्रे चर्चिताः।  प्रतिभागिनां संभाषणदक्षतावर्धनाय प्रतिदिनं होरात्रयं सम्भाषणाभ्यासः चासीत्। संस्कृतस्य नानाविधविभवान् अधिकृत्य प्रतिभागिनः सप्ताहाभ्यन्तरेण प्रबोधिताः।
 डा. सम्पदानन्द मिश्रः कक्ष्यां चालयति 
 एक लिटर् शिलातैलमुपयुज्य 200 किलोमीटर्  गन्तुं शक्यते 


जय् पूर्> एक लिटर् पेट्रोल उपयुज्य 200 किलोमीटर्  गम्यमानेन  कार् यानेन सह छात्राणां संघः। जय् पूर् स्वदेशिनः अतुल आरोरया सह त्रिंशत् प्रयत्नशालिनः एव कर् यानस्य निर्मातारः।  वेल्लूर्
 इन् स्टिट्यूट् आफ् टेक्नोलजी कालालयस्य छात्रैः 'रुद्रा' इति कारयानाय नामकरणं कृतम् । न केवलं पेट्रोलस्य व्ययः पुनः पारिस्थितिकमालिन्यानि च  न्यूनीकरोति इति  सविशेषता। इलक्ट्रोणिक् संविधानेन इन्धनोपयोगक्षमता वर्धयितुं शक्यते। अष्टमासाभ्यन्तरेण  निर्मितं  कार् यानस्य  षेल् इक्को मारतण् एष्या स्पर्धायाम्  औद्योगिकरूपेण भागभागित्वं भविष्यति ।

महाराष्ट्रायां पृष्ठोपविष्टानां 
द्विचक्रयानयात्रिकानामपि शिरस्त्राणम् अनिवार्यम्। 


मुंबई > महाराष्ट्राराज्ये द्विचक्रवाहनस्य पृष्ठोपविष्टानां यात्रिकाणामपि  शिरस्त्राणम् अनुपेक्षणीयम् इति गतागतविभागस्य आदेशः। २००० तमे वर्षे मुम्बई उच्चन्यायालयेन कृतं निर्देशमनुसृत्यैव अयमादेशः। किन्तु शिरस्त्राणव्यापारिणां साहाय्यार्थमेवायमादेश इति राज् ताक्करे महोदयस्य नव निर्माणसेनायाः अभिमतम्।

मुम्बई भीकराक्रमणं ऐ.एस्.ऐ. संस्थया आसूत्रितम् - हेड्लि।


नवदिल्ली > मुम्बई नगरे २००८ संवत्सरे संवृत्तं आतङ्कवादि आक्रमणं पाकिस्तानसैन्यस्य ऐ. एस् .ऐ इति  तस्य गुप्तसंघस्य च साहाय्येन कृतमासीदिति आक्रमणस्य मुख्यसूत्रधारः डेविड् कोल्मान् हेड्लि।प्रस्तुते भीकराक्रमणे दण्डितः तीव्रवादी अस्ति पाक्-अमेरिकन् वंशजः दावूद् गीलानी नामकः हेड्ली। 
द्विवारं विफलं भूत्वा तृतीयवारप्रयत्न एव मुम्बई भीकराक्रमणे सफलीकृत इति हेड्ली मुम्बय्यां सविशेषन्यायालये स्पष्टीकृतवान्। २००८ सेप्टम्बर् ओक्टोबर् मासयोः कृतं उद्योगद्वयमपि विफलं जातम्। पुनः नवंबरमासे तेनैव संघेन कृतं प्रयत्नं सफलीकृतम्।वीडियो कोन्फ्रसिंग् द्वारा स उक्तवान्।

ऐ.एस् भीतेः भारतं न मुक्तम् - यु.ए.इ।

अबुदाबी > इस्लामिक् स्टेट् दलात् जातभीतितः भारतं  इतोऽपि न मुक्तम् भवेत् इति यु .ए .इ राष्ट्रस्य सूचना। ऐ.एस्. संघेन समं बन्धं स्थापिताः  द्वादश जनाः भारतं निगूढयारीत्या अन्तः प्रविष्टाः । भीकरविरुद्धप्रवर्तनाय भारतेन समं दृढप्रयत्नं कर्तुं शक्यते इति  यु .ए.इ राष्ट्रेण उक्तम् च। 
ऐ .एस्  भीतितः कोपि न मुक्तः। 
यः कोपि सुरक्षितस्थाने अस्तीति चिन्तयति चेत् ते बहुक्लेशमनुभवितुम् अर्हाः। भारतमपि यु.ए. इ समानं भवेत् इति यु.ए.इ मन्त्री डा.अन् वर् मुहम्मद् गरगाषः अवदत्। षेयिख् मुहम्मद् बिन् सयिद् अल् निह्यानस्य त्रिदिवसीय - भारतसन्दर्शनवेलायामेव आसीत् इयं सूचना। अपि च भीकरविरुद्धप्रवर्तनार्थं नूतन तन्त्राणि  आविष्करोतीति देशीय माध्यमान् प्रति सः अवदत्।

जर्मनीराष्ट्रे रयिल् यानयोः अपघातः बहवः मृताः 


train-accident
बर्लिन्> जर्नीयोः  राष्ट्रे बवेरियायां रयिल् यानयोः दुर्घट्टने बहवः मृताः शताधिकाः व्रणिताः म्युनिक् देशेएव अपघातः जातः होर्किच्चन् देशतः होसन् हयिं प्रति  गच्चतासीत् यानमेव आपति पतितम् घट्टनस्य उग्र शक्त्या यानं विपरी कृत्य रेल्तः पतितः इति दृक्साक्षिणः वदन्ति दुर्घटनायां कति मृताः इति वक्तुं न शक्यते इति आरक्षकाः वदन्ति मृतानां संख्या इतोऽपि  अधिका वर्धते व्रणितानां अवस्था गुरुतरा वर्तते रक्षाप्रवर्तनानि अधुनापि प्रचलन्ति यानान्तर्भागे यात्रिकाः बन्धिताः सन्ति।
छात्राः न आगच्छन्ति चेत् विद्यालयः छात्रान् अन्विष्य गमिष्यति।
 जयपूर > छात्रान् अन्विष्य विद्यालयः सञ्जरन्ति! ग्रामीणछात्राणां पठनार्थं जय्पूर् नगरस्य टाबर सोसैटी संस्थया अविष्कृता नूतना पद्धतिरियम्।
" स्कूल् ओपण् वील् " इति नाम्ना विद्यालयः ग्रन्थशाला च संभूय भवति एतत्। "सञ्जारविद्यालयस्य " प्रवर्तनोद्धाटनं मुख्यमन्त्रिणा वसुन्धरा राजेन कृतः। प्रथमतया जय्पूर् जनपदे एव विद्यालयस्य प्रवर्तनम्। लूणिया वास् , गोणार् मण्डलाणां ग्रामीणानां तथा गार्डिया लोहार , गुमान्डु विभागानां मध्ये च प्रवर्तनाय उद्दिश्यते। सर्वकारीयशैक्षिक रङ्गे विविधेषु राज्येषु  पृष्ठतः अस्ति राजस्थानदेशः।
संस्कृतसंभाषण शिबिरम्।
केरळम् - तृश्शूर्>  तृश्शुर् नगरे पुनः दशदिनसम्भाषणशिबिरम् भविष्यति ।  चिन्मयमिषन्  भुवनेश्वरी मन्दिरे प्रातः १० वादनतः १२ वादन पर्यन्तम् । फेब्रुवरी १७ दिनाङ्के आरम्भ:।
पाकिस्तान् संसदि हिन्दुविवाहनियमः अङ्गीकृतः।
इस्लामबाद् > हिन्दु विवाहनियमस्य प्राथमिकदेयकं पाकिस्तानी संसद्समित्या ऐककण्ठ्येन अङ्गीकृतम्।अचिरादेव नियमो भविष्यति। एतदनुसृत्य विवाहवयः १८ भवति।पञ्च हैन्दवान् सभाङ्गान् अामन्त्र्य पर्यालोचनानन्तरमेव देयकं संसिद्धम्।
आगोलभीकरसंस्थानां नियन्त्रणं ऐ.एस्.ऐ द्वारा।

नवदिल्ली > आगोलतले जिहादीप्रवर्तनानां नियन्त्रणं ऐ एस् ऐ नामकेन पाक् चारसंघेन क्रियते इति न्यूयोर्क् टैम्स् दिनपत्रिकया निवेद्यते।इस्लामिक् स्टेट् संधटनायाः प्रारम्भ अपि अनेन संघेन कृतमिति पत्रिकायां प्रसिद्धीकृते लेखने प्रस्तूयते।अन्ताराष्ट्रमुजाहिदीन् प्रवर्तकेषु भूरिभागः सुन्नितीव्रवादिनः। ऐ.एस्.ऐ इत्यस्य साहाय्यं एतेभ्यः लभ्यते इत्यत्र प्रमाणमस्तीति लेखने उच्यते।
लोके अन्विष्टाः सर्वे भीकराः पाकिस्ताने सुरक्षिताः भवन्ति। हखानी श्रृङ्खलायाः नेता सिराजुदीन् हखानी तत्र स्वतन्त्रः।तालिबान्,अल् ख्वीयदा इत्यादयः ऐ एस् ऐ इत्यस्मात् साह्यं स्वीकुर्वन्ति।
  न्यूयोर्क् टैम्स् पत्रिकायाः उत्तराफ्रिक्कन् लेखिका कार्लोट्टा गाल् एव लेखनं सज्जीकृतवती।

Tuesday, February 9, 2016

संस्कृतसत्रं सम्पन्नम्।

पुदुच्‍चेरी> पुदुच्चेरीस्थेन श्री - अरविन्द - भारतीयसंस्कृति - संस्थानेन आयोजितः सप्तदिनात्मकः 'स्पन्दन' झ्याख्यः संस्कृतशिक्षणवर्गः सुचारुतया सम्पन्न:। असिन् शिक्षण वर्गे देश विदेशेभ्यः उपपञ्चाशत् प्रतिभागिनः संस्कृत शिक्षणार्थम् आगतवन्तः आसन्। संस्थानस्य निदेशकः डॉ. सम्पदानन्द मिश्रः वर्ग सञ्चालनमकरोत्। वर्गे अस्मिन् मन्त्रोच्चारणशिक्षणं,  संभाषणकौशलं, संस्कृते कथानिर्माण कौशलं, बालगीतनिर्माणकौशलं, व्याकरणज्ञानं, छन्दसां परिचयः इत्यादयः अनेके विषयाः योजिताः आसन्। अन्तर्जालस्य उपयोगेन संस्कृताध्ययनं इति विषयमपि सत्रे चर्चिताः।  प्रतिभागिनां संभाषणदक्षतावर्धनाय प्रतिदिनं होरात्रयं सम्भाषणाभ्यासः चासीत्। संस्कृतस्य नानाविधविभवान् अधिकृत्य प्रतिभागिनः सप्ताहाभ्यन्तरेण प्रबोधिताः।
 डा. सम्पदानन्द मिश्रः कक्ष्यां चालयति 
 एक लिटर् शिलातैलमुपयुज्य 200 किलोमीटर्  गन्तुं शक्यते 


जय् पूर्> एक लिटर् पेट्रोल उपयुज्य 200 किलोमीटर्  गम्यमानेन  कार् यानेन सह छात्राणां संघः। जय् पूर् स्वदेशिनः अतुल आरोरया सह त्रिंशत् प्रयत्नशालिनः एव कर् यानस्य निर्मातारः।  वेल्लूर्
 इन् स्टिट्यूट् आफ् टेक्नोलजी कालालयस्य छात्रैः 'रुद्रा' इति कारयानाय नामकरणं कृतम् । न केवलं पेट्रोलस्य व्ययः पुनः पारिस्थितिकमालिन्यानि च  न्यूनीकरोति इति  सविशेषता। इलक्ट्रोणिक् संविधानेन इन्धनोपयोगक्षमता वर्धयितुं शक्यते। अष्टमासाभ्यन्तरेण  निर्मितं  कार् यानस्य  षेल् इक्को मारतण् एष्या स्पर्धायाम्  औद्योगिकरूपेण भागभागित्वं भविष्यति ।

महाराष्ट्रायां पृष्ठोपविष्टानां 
द्विचक्रयानयात्रिकानामपि शिरस्त्राणम् अनिवार्यम्। 


मुंबई > महाराष्ट्राराज्ये द्विचक्रवाहनस्य पृष्ठोपविष्टानां यात्रिकाणामपि  शिरस्त्राणम् अनुपेक्षणीयम् इति गतागतविभागस्य आदेशः। २००० तमे वर्षे मुम्बई उच्चन्यायालयेन कृतं निर्देशमनुसृत्यैव अयमादेशः। किन्तु शिरस्त्राणव्यापारिणां साहाय्यार्थमेवायमादेश इति राज् ताक्करे महोदयस्य नव निर्माणसेनायाः अभिमतम्।

मुम्बई भीकराक्रमणं ऐ.एस्.ऐ. संस्थया आसूत्रितम् - हेड्लि।


नवदिल्ली > मुम्बई नगरे २००८ संवत्सरे संवृत्तं आतङ्कवादि आक्रमणं पाकिस्तानसैन्यस्य ऐ. एस् .ऐ इति  तस्य गुप्तसंघस्य च साहाय्येन कृतमासीदिति आक्रमणस्य मुख्यसूत्रधारः डेविड् कोल्मान् हेड्लि।प्रस्तुते भीकराक्रमणे दण्डितः तीव्रवादी अस्ति पाक्-अमेरिकन् वंशजः दावूद् गीलानी नामकः हेड्ली। 
द्विवारं विफलं भूत्वा तृतीयवारप्रयत्न एव मुम्बई भीकराक्रमणे सफलीकृत इति हेड्ली मुम्बय्यां सविशेषन्यायालये स्पष्टीकृतवान्। २००८ सेप्टम्बर् ओक्टोबर् मासयोः कृतं उद्योगद्वयमपि विफलं जातम्। पुनः नवंबरमासे तेनैव संघेन कृतं प्रयत्नं सफलीकृतम्।वीडियो कोन्फ्रसिंग् द्वारा स उक्तवान्।

ऐ.एस् भीत्यात् भारतं न मुक्तम् - यु.ए.इ ।

अबुदाबी > इस्लामिक् स्टेट् दलस्य भीषणीतः भारतमपि मुक्तो नभवेत् इति यु .ए .इ राष्ट्रस्य सूचना। 
ऐ.एस्. संघेन समं बन्धं स्थापिताः  द्वादश जनाः भारतं प्राप्ताः । भीकरविरुद्धप्रवर्तनाय भारतेन समं दृढप्रयत्नं कर्तुं शक्यते इति च यु .ए.इराष्ट्रेण उक्तः। 
ऐ .एस्  भीतितः कोपि न मुक्तः। 
यः कोपि सुरक्षितस्थाने अस्तीति चिन्तयति चेत् ते बहुक्लेशमनुभवितुम् अर्हाः। भारतमपि यु.ए. इ समानं भवेत् इति यु.ए.इ मन्त्री डा.अन् वर् मुहम्मद् गरगाषः अवदत्। षेयिख् मुहम्मद् बिन् सयिद् अल् निह्यानस्य त्रिदिवसीय - भारतसन्दर्शनवेलायामेव आसीत् इयं सूचना। अपि च भीकरविरुद्धप्रवर्तनार्थं नूतन तन्त्राणि  आविष्करोतीति देशीय माध्यमान् प्रति सः अवदत्।

Monday, February 8, 2016

शास्त्रमण्डलेषु नवीनाः आविष्काराः भवितव्याः- प्रधानमन्त्री।
भुवनेश्वरम् > शास्त्रमण्डलेषु नूतनाशयाः आविष्काराश्च भवितव्याः ; ते राष्ट्रप्रगत्यै अनिवार्याः इति भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्।भुवनेश्वरे देशीय शास्त्रपठनगवेषणकेन्द्रस्य उद्घाटनं निर्वहन् भाषमाणः असीत् मोदिवर्यः।
आधुनिकसमाजः नूतनाशयेषु तेषां साक्षात्कारेषु च तत्परो भवति। अतः छात्रेषु तात्पर्यजननम् अनुपेक्षणीयमस्ति।परिस्थितिसंरक्षणे पारम्पर्येतरोर्जविनिमये च छात्राः अध्या,पकाश्च उत्सुकाः भवेयुः।भारतस्य बहिराकाशकार्यक्रमाः आगोलश्रद्धां प्राप्तवन्तः इति प्रधानमन्त्री अब्रवीत्।
  ८० वर्षात्पूर्वं दिवङ्गताय वैज्ञानिकाय लक्षं रूप्यकाणां विद्युत् स्वीकृतिः !

राञ्चि> अशीति (८०) वर्षात्पूर्वं दिवंगतं भारतस्य प्रमुख शास्त्रज्ञाय जे.सि.बोस् वर्याय एव लक्षं रुप्यकाणां दण्डः। जार्खण्डस्य वैद्युत वितरण संस्थया एव एवं सूचना प्रेषिता। ३३ वर्षस्य वैद्युतेः शुल्कम् समर्पणीयमिति निर्दिष्टम्। १९७०-२००३ वर्षेषस्य शुल्कम् १,०१८१६ इति सूचनापत्रेण ज्ञापयति। १९३७ नवंबर् मासस्य २३ दिनाङ्के एषः महोदयः दिवंगतः।
गिरिधिक् जे.सि.बोस् डिस्ट्रिक्ट् सयन्स् सेन्टर् नाम संस्थायाः वैद्युतोपयोगस्य शुल्कम् एव तत् । जार्खण्डराज्यस्य उत्भवात्पूर्वं बीहार राज्यस्य कौण्सिल् फोर सयन्स् आन्ट टेक्नोलजी नाम संस्थया विद्युत्शुल्कम् पूरितम् आसीत्I
सस्यानां जीवः अस्ति इति अन्विष्य दर्शितः भवति अनेन वैज्ञानिकेन।

आदिशङ्करस्य कुलदेवतामन्दिरे अद्य उत्सवप्रारम्भः।

कोच्ची> अद्वैतवेदान्तसंस्थापकस्य जगद्गुरुश्रीशङ्कराचार्यस्य कुलदेवतामन्दिरमिति विख्याते कालटी श्रीकृष्णमन्दिरे अष्टदिनात्मकमहोत्सवस्य अद्य शुभारम्भः।
श्रीशङ्करस्य कालं यावत् स्मारयति सर्वस्य  साक्षिरूपम् इदं च मन्दिरम्।अत्र श्रीशङ्करेणैव कुलदेवताप्रतिष्ठा कृतेति ऐतिह्यः।
  अद्य सायं अष्टवादने "कोटियेट्" इति पताकाध्वजारोहणेन उत्सवः प्रारभ्यते।फेब्रुवरी १५तमदिनाङ्के ध्वजावरोहणेन समापनं भविष्यति।श्रीमन्नारायणीय-भागवतपारायणानि, आध्यात्मिकप्रभाषणं,सोपानसंगीतं, चाक्यार् कूत्त्, पञ्चारिमेलं, नृत्तकार्यक्रमाः,बाले इति नृत्तसंगीतनाटकम् इत्यादीनि उत्सवसमारोहे अन्तर्भूय आयोज्यन्ते।


संस्कृतभारत्याः कार्यकर्तृमेलनम्।

तृश्शूर्> संस्कृतभारत्याः केरलराज्यस्य मध्यसम्भागस्य कार्यकर्तृमेलनं तृश्शूर् नगरे तेक्केमठे लक्ष्मीमण्डपे फेब्रुवरी मासे त्रयोदश (१३) दिनाङ्के शनिवासरे प्रातः दशवादनतः त्रिवादनपर्यन्तम् भविष्यति । अखिलभारतीयसङ्घटनामन्त्री श्री दिनेश् कामत् महोदयः मार्गदर्शनं करिष्यति। संस्कृतस्य प्रचाराय नूतन प्रवर्तनानि आभारतं संकृतभारत्या कृतानि सन्ति। संस्कृतस्य कृते निस्वार्थतया क्रियमाणा सर्वकारेतर संस्था भवति संस्कृतभारती।

Sunday, February 7, 2016

शबरिगिरिः देवालये महिलानां प्रवेशरोधनम् अनुवर्तितव्यमिति सर्वकारः।

नवदिल्ली >केरले शबरिगिरिश्रीधर्मशास्तृमन्दिरे  महिलानां दर्शनविषये रोधनम् अनुवर्तितव्यमिति राज्यसर्वकारः सर्वोच्चन्यायालये सत्यवाङ्मूलं प्राददात्।
  प्रस्तुतमन्दिरे १० - ५० मध्ये वयस्कानां नारीणां प्रवेशनं दर्शनं च बहुकालैः निषिद्धमस्ति। धर्मानुष्ठानानि विश्वासान् च अनुवर्तितुं शासनसंविधानस्य २५ ,२६ अनुच्छेदाभ्यां निश्चितम्। तुल्यतानिर्णयप्रकारः १४तम अनुच्छेदः आचारनिषेधाय न पर्याप्तो भवति इति सर्वकारस्य सत्यवाङ्मूले विशदीक्रियते।

देशीयतले वेतनस्यैकीकरणं परिगणनायाम्।

नवदिल्ली > भारतसर्वकारेण देशीयतले सर्वकर्मणां न्यूनतमं वेतनं निश्चेत्तुं "न्यूनतमवेतनपरिष्करणनियमरेखा " सज्जीकृता। केन्द्रकर्ममन्त्रालयेण सज्जीकृतं देयकं केन्द्रमन्त्रिसभायाः परिगणनार्थं विलम्बं विना समर्पयिष्यते।
एतदनुसृत्य राज्यानि संघत्रयं कृत्वा न्यूनतमवेतनं निश्चिनोति।केरलेन सह बीहारः प.बंगाल् कर्णाटका असम् ओडीषा इत्यादीनि राज्याणि संघे अन्तर्भवन्ति। अतः राज्यान्तरकर्मकराणां प्रवाहः स्थगितुं साध्यता अस्ति।

गुजराते बस् यानं नदीं पतित्वा ३७ मरणानि। 

अहम्मदाबाद् > गुजरात् राज्ये नवसारीजनपदे सुपाग्रामस्य समीपे राज्यसर्वकारस्य बस्  यानं पूर्णानद्यां निपत्य ३७ जनाः मृत्युमुपगताः।

Saturday, February 6, 2016

अन्ताराष्ट्रमहानौकाव्यूहप्रदर्शनम् आरब्धम्।
विशाखपट्ट्णं - धैर्यः आर्जवश्च सागरैः सम्मिलति इति उद्घोषणेन लोकराष्ट्रेभ्यः महानौकाः वंगसमुद्रं प्राप्ताः। नाविकसेनायाः शक्तिम् आत्मविश्वासं च प्रदर्शयित्वा भारतम् आतिथ्यं वहति।भारतस्य राष्ट्रपतिः अद्य सन्दर्शनं करोति।
भारत-पाक् राष्ट्रयोः चर्चा आवश्यकी - नवास् षेरीफ् भारतं विरुध्य हाफिस् सय्यद्।
इस्लामबाद्> भारतपाकिस्थानदेशयोः मिथः चर्चा आवश्यकी इति पाकिस्थानस्य प्रथानमन्त्री नवास् षरीफः। भारतविरुद्धतया पथसञ्चलनं करोति हाफिस् सय्यिद् नाम भीकरः। जम अत्तुत्त अव नाम भीकरदलस्य नेता मुंबै भीकराक्रमणस्य सूत्रधारः च एषःI काश्मीरदिनाचरणमनुबन्ध्य इस्लामबादे  अनेन 'राली' आयोजित वान्।
भीकरतया अधिकतया पीडितं राष्ट्रं भवति पाकिस्थानः। अतः भीकरान् मार्जयितुं पाकिस्थानस्य औत्सुक्यमस्ति इति षेरिफः अवदत् ।
सिरिया राष्ट्रस्य समाधानचर्चा समापितः
जनीवा> विमतानाम् अधीने वर्तमानं अलपो नगरं सिरियायाः सैन्येन परिबन्धितम् । अतः जनीवायाम् ऐक्यराष्ट्रसंस्थया आयोजिता समाघानचर्चा समापितः। तुर्कीतः आरभ्य अलपोनगर पर्यन्तं वाणिज्यमार्गे विध्नं कृत्वा रष्यायाः व्योमाक्रमणबलेन च युद्धं क्रियते। वारत्रयपर्यन्तं चर्चा नस्तीति यु.एन् प्रतिनिधिना विज्ञापितः। केवलं विमतकेन्द्रेषु एव आक्रमणं क्रियते इति रष्यायाः विदेशकार्यमन्त्री सेर्जी लवरोव् अवदत्। अलपो नगराणं मध्ये स्थितस्य उपरोधस्य समापनाय यु .एस् स्टेट् सेक्रटरि जोण् केरिना उक्तः। तुर्कीसीमातः पञ्चाशत् किलोमीटर् दूरे स्थितः अलपोनगरस्य अर्धभागं विमतानाम् अधीनम् अभवत्।
कोटिरुप्यकाणां राज्यन्तरसाहायं समाहर्तुं बृहतीं  पद्धतीं लोकराष्ट्राणां कृते  रूपीकृतः। पञ्चवर्षाणि यावत् युद्धेषु सार्धद्वयाधिकलक्षं जनाः मृताः, षष्ट्यधिकलक्षं जनाः पलायिताः, चत्वारिंशतधिकलक्षं जनाः अभयार्थिनः च भवेयुः। आभ्यन्तरचर्चां विना सिरियामध्ये समस्यायाः परिहारः नास्तीति यु.एन् सेक्रटरि जनरल् बान् की मूण्  अवदत्। ब्रिटण्, नोर्वे, जर्मनी आदिराष्ट्राणं दीर्घकालसमाश्वासाय ७.७३ बिल्यण् डोलर  यु .एन् .एजनसीना  समाहृतः।

Thursday, February 4, 2016

संस्कृतं लोकजेत्री भाषा - केरलराज्यपालः।

कोच्ची > क्रमबद्धायाः पाठ्यपद्धत्याः सुस्थितानां व्याकरणनियमानां च शक्त्या भुवने अपराजिता भाषा भवति संस्कृतमिति केरलानां राज्यपालः न्याय.पि सदाशिवम् अवदत्।
एरणाकुलं जनपदे तृप्पूणित्तुरा सर्वकारीय संस्कृतकलालयस्य उच्चतरविद्यालयस्य उच्चविद्यालयस्य च शताब्द्याघोषाणां समापनसम्मेलनम् उद्घाटनं कुर्वन्नासीत् राज्यपालः। संस्कृतकलालये न्यायसाहित्यव्याकरणज्योतिषाः विषयाः बिरुद-बिरुदानन्तरतले पठितुमवकाशः अस्तीति भाषायाः जागर्तेः कृते प्रयत्नः आवश्यकः इति स उक्तवान्।
  सम्मेलने मन्त्री के बाबुः अद्ध्यक्षपदमलंकृतवान्। प्रशस्ता नर्तकी डो. पद्मा सुब्रह्मण्यं विशिष्टातिथिः आसीत्।

विमानस्य यात्रावेलायां विस्फोटः, 
बहिर्पतितः यात्रिकः मृतः।

 मोगादिषु(सोमालिया) > यात्रामध्ये विमानविस्फोटनेन बहिरुद्पतितः यात्रिकः भूमौ पतित्वा मृतः। सोमालियायाः राजनगर्यः मोगादिषु राज्ये सुरक्षामार्गेण विमानं प्रतिनिवृत्तम्। एयर् बस् ए 321 विमानयात्रिकाः सर्वे सुरक्षास्थानेऽस्तीति अधिकरिदलेन विज्ञापितम्। पतितस्य यात्रिकस्य मृतशरीरं मोगदिषु राज्यातः त्रिंशत् किलोमीटर् दूरे दृष्टम्।विमानान्तर्भागस्य विस्फोटनकारणं कथमभवत् इति वक्तुं न शक्यते। ७४ यात्रिकैः सह मोगादिषु राज्यात् गतः विमानस्य भागे स्फोटनमभवत्। विमानस्य प्रतिनिवृतानन्तरमेव यात्रिकस्य असान्निध्यम् ज्ञातम्।
वनिता कर्मकराणां कलहेन विमानस्य  मार्गे भ्रंशः।

षिक्कागो >  वनिता कर्मकराणां मिथः जायमानेन कलहेन मार्गमध्ये विमानस्य गतिः अलक्षीकृता। अमेरिक्कायाः लोस् ऐञ्चल्सतः मिनिपोलीसं प्रति गच्छतासीत् विमानम्। डल्टा एयर् लैन्स् विमाने एव ताडनक्रिया अभवत्। उड्डयित्वा ४० मिनट्ट अनन्तरमेव संभवः।

पठान्कोट्ट् आवर्तिष्यते इति भीषणवचांसि।

मुसाफराबाद् > पठान्कोट्ट्  भीकराक्रमणं प्रशंस्य समानाक्रमणाय आह्वानं कृत्वा च मुम्बई भीकराक्रमणस्य सूत्रधारः हाफिस् सयीदः  आविर्भूतः।पाकधीनकाश्मीरे कस्मिंश्चित् पथसंचलने भाषमाण आसीत् जमाअत् उद्दवस्य नेता सयीदः।
काश्मीरस्य स्वातन्त्र्यं यावत् भारतं प्रति युद्धमनुवर्तिष्यते इति पथसञ्चारिणैः उद्घोषितम्।

केरलनियमसभासम्मेलनम् अद्य आरभते।

अनन्तपुरी - केरलनियमसभायाः अन्तिम सम्मेलनं अद्य राज्यपालस्य न्याय. पि सदाशिवस्य नयप्रख्यापनप्रभाषणेन आरभते। परन्तु आरोपणविधेयानां मन्त्रिणां त्यापत्राणि लक्षीकृत्य सम्मेलनं प्रक्षुब्धं स्यात्। विपक्षिदलैः नयप्रख्यापनं बहिष्कर्तुं निर्णयः अपि कृतः।

Wednesday, February 3, 2016

सिका वैरस् विरुध्य भारतवैज्ञानिकैः औषधम् अन्विष्य दर्शितम्।

सिका वैरस् विरुध्य भारतवैज्ञानिकै औषधं दर्शितम्।
हैद्राबाद् > लोकेषु भीतिं जनयित्वा जातं सिका नाम  वैरस् विरुध्य नूतनं औषधं दृष्टवन्तः भारतीयया: वैज्ञानिकाःI हैद्राबाद् नगरस्य भारत् बयोटेक् इन्टर् नाषणल्  संस्थायाः वैज्ञानिकाः एव अस्य औषधदर्शनस्य कृते प्रयत्नं कृतवन्तः।'सिका- विरुद्ध- औषधस्य उपज्ञातृषु संस्थासु प्रथमा संस्था अस्माकम् ' इति अध्यक्षः डा. कृष्‍णः अवदत्। सिकां विरुध्य वाक्सिन् द्वयं विकसितम्। इदानीं औषधनिर्माणाय अधिकारपत्र- प्राप्तिमुद्दिशय ICMR संस्थायाः पुरतः आवेदनं दत्तमस्ति।

औषधस्य शास्त्रीय- निरीक्षण - परीक्षणानि कृत्वा एव अधिकारपत्रदानं भविष्यति इति ICMR संस्थायाः अध्यक्षा डा. सौम्या स्वामिनाथः अवदच्च।

सिका गर्भावस्थासु शिशूनां मस्तिष्कस्य आक्रमणं करोति। मस्तिष्कस्य आकारं न्यूनी करोति। अनेन २५०० शिशवः इदानीं ब्रसील् राष्ट्रे पीडिताः सन्ति। जवेन सङ्क्रममाणा इयं सिका इत्यनेन लोकस्वास्थ्य-संस्थया लोकेषु विशेषश्रद्धा उद्‌घोषिता ।

अरब्-आफ्रिक्का राज्ययोः यात्रा सुकरी भविष्यति।

दुबाय् > गतागतरंगेषु नूतनपद्धतिम् आविष्कृत्य अरब्-आफ्रिक्का राज्ययोः यात्रा सुकरीकृता। जे.सि.सी  रयिल-पद्धतेः परं 35,200 कोटिः डोलर् उपयुज्य  षोडश सुप्रधानरयिलमार्गस्य दीर्धीकरणं भाविनि काले कर्तुं शक्यते। 
सुकरयात्रा, कर्मप्राप्तिः, यन्त्रभागानां निर्माणं, नूतन साड़्केतिकविद्या इत्यादि विषयान् अधिकृत्य 'दुबाय् राज्यान्तर कण्वेन्षन् सेन्टर्' मध्ये मार्च मासस्य अष्टम-नवम दिनाङ्कयोः 'मिडिल़् ईस्ट् रयिल् मेलायां' चर्चां करिष्यति। भारतीयानां च सान्निध्येन सह त्रिशताधिकाः प्रदर्शकाः सन्निहिताः भविष्यन्ति। 
यु. ए. इ उपप्रधानमन्त्रिणः तथा प्रसिडन्ष्यल् कार्यमन्त्रिणः षेय्ख मनसूर् बिन सायाद् अल् निह्यानस्य नेतृत्वे एव मेला प्रचलिष्यति। यु. ए.इ, कुवैत्, सौदि- अरेब्या; ओमान् इत्यादिराज्याणाम् कार्षिक-वाणिज्य- शैक्षिकमण्डलेषु च नूतनपद्धत्याः साहाय्यं लभ्यते। कुवैत् समुद्रतीरतः आरभ्य  सौदी - यु.ए.इ मर्गेण ओमान् प्राप्य ततः इतरप्रदेशेषु च गच्छति  जि.सि.सि.रयिलः। रयिल् निर्माणमेखलायां बहूनि अवसराः च लभ्यन्ते। जि.सि.सि पद्धत्यर्थं गल्फराज्यम् १०,००० कोटि-डोलर् अधिकं धनं व्ययं करिष्यतीति वार्ता।  विविधाभ्यः खनीभ्यः फोस्फेट्, बोक्सैट् च रस् अल् खैर् नाम सागरमुखम् आनयति चेत् व्यावसायिकमण्डलेषु  महत्तमं स्थानं प्राप्तुं शक्यते।