OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, February 18, 2016

केरलसंस्कृताध्यापकसमित्याः राज्यस्तरीयसम्मेलनम् आरब्धम्।

कविना गिरीष्पुलियूर् महोदयेन  कृतम् मुख्यभाषणम् । 'संस्कृताभिमानिनः भाषणम्‌'
कोच्ची > केरलेषु संस्कृत-शिक्षामण्डले सारभूतैः योगदानैः संस्कृतप्रचारणे तथा संस्कृताध्यापकानां योगक्षेमे च अनुस्यूतं प्रवर्तमानायाः केरल संस्कृताध्यापक-फेडरेषन् नामिकायाः संस्थायाः ३८तमं राज्यस्तरीयसम्मेलनं जन्मभूमौ कोल्लं नगरे फिब्र. १८,१९ २० दिनाङ्केषु प्रचलिष्यति। उद्घाटनसम्मेलनेन सह प्रतिनिधि-सांस्कृतिक- विद्याभ्यास- संस्कृत-सेवननिवृत्तादरण- सार्वजनीनसम्मेलनानि एषु दिनेषु आयोजितानि।
जिल्लापञ्चायदध्यक्षा के जगदम्मा उद्घाटनं करोति।

१८ प्रभाते नववादने राज्याध्यक्षः वेणु चोव्वल्लूर् वर्यः पताकोन्नयनम् अकरोत्। ततः प्रवृत्तमानं सम्मेलनं जिल्लापञ्चायदध्यक्षा के जगदम्मा उद्घाटनम् अकरोत्। दशवादने प्रतिनिधिसम्मेलनं भूतपूर्वः राज्यस्तरीयकार्यदर्शिप्मुखः कटय्कोट् सुरेन्द्रः उद्घाटयिष्यति। अनन्तरं नूतनशासनसमित्याः निर्वाचनकार्यक्रमाणि अभवन्।
६वादने सांस्कृतिकसम्मेलनं कोल्लं नगरसभायाः उपाध्यक्षया विजया फ्रान्सिस् वर्यया उद्घाटनं करिष्यते।तस्मिन्नवसरे प्रशस्तः कविः गिरीष् पुलियूर् मुख्यभाषणं करिष्यति। तत्र विविधमण्डलेषु लब्धपुरस्काराः अध्यापकप्रतिभाः समादरिष्यन्ते।
१९ दिनाङ्के १० वादने विद्याभ्यास-संस्कृतसम्मेलने भारतसंसदङ्गः एन् के प्रेमचन्द्रः उद्घाटकः भविष्यति। देवस्वं बोर्ड् समित्यध्यक्षः प्रयार् गोपालकृष्णः मुख्यभाषणं करिष्यति। ११.३० वादने सेवननिवृत्तानाम् अध्यापकानां कृते आदरः।द्विवादने आरभ्यमानं सार्वजनीनसम्मेलनं  केरलस्य गतागतमन्त्री तिरुवञ्चूर् राधाकृष्णः उद्घाटनं करिष्यति। नियमसभासामाजिकः मुल्लक्कर रत्नाकरः मुख्यभाषणं करिष्यति।
  २०प्रभाते दशवादने राज्यसमित्याः उपवेशनं भविष्यति।

काश्मीरदेशस्य स्वतन्त्रतायै जावद्पूर् विश्वविद्यालये भित्तिपत्रिकाः

कोलक्कता >   अफ्सल् गुरुम् अनकूल्य मुद्रावाक्यानन्तरं जावद् विश्वविद्यालये  काश्मीरस्य मणिपूरस्य नागालान्डस्य च स्वतन्त्रतायै  भित्तिपत्रिकाः। "काश्मीरस्य स्वतन्त्रता, मणिपूरस्य स्वतन्त्रता, नागालान्टस्य स्वतन्त्रता वयं इच्छामः" इत्यस्ति पत्रिकायाम्। भित्तिपत्रिकाः सर्वे ' राडिक्कल्' इति नाम्ना भवति।
किन्तु अस्यां घटनायां भागभागित्वं न भवेत् इति विविधैः विद्यार्थि दलैः उक्तम्। विश्वविद्यालये  अनिष्टघटनामधिकृत्य छात्रसंघानां नेतृभिः सह  उप कुलपतिः चर्चां कृतवान्। ह्यः कलालये अफ्सल्गुरुम् अनुकूल्य छात्रैः मुद्रवाक्यानि उक्तानि। विषयेऽस्मिन्  रक्षीपुरुषाणां साहाय्यं विना  परिहारः करिष्यते इति  उप कुलपतिना उक्तम्।

रष्यायाः मिसैल् आक्रमणेन मृतानां संख्या ५०

अमान् > आभ्यन्तर युद्धेन दूयमानायां सिरियायां रष्यायायाः मिसैल्आक्रमणेन पञ्चाशत् जनाः मृताः। मृतेषु सामान्यजनाः आतुरालयस्य उद्योगिनः च सान्ति। अलेप्पो,असास् नगरयोः द्वौ विद्यालयौ, पञ्च आतुरालयाः च भग्ना: .। ऐक्यराष्ट्रसभया इदं कृत्यम् अपलपितम्। राज्यान्तर-नियमस्य लङ्घनमेवेदम् इति अभिप्रेति च। अस्माभिः भीकराः लक्षीकृताः न सामान्यजनाः इति रष्यया उच्यते।