OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 28, 2018

अमेरिकायां जूतदेवालये भुषुण्डिप्रयोगः - ८ जनाः हताः। 
    पिट्स्बर्ग्  >  यू एस् राष्ट्रे पीट्स्बर्ग नगरस्थे जूतदेवालये [सिनगोग्] कस्यचन अक्रमिणः  भुषुण्डिप्रयोगेण अष्ट जनाः हताः। अनेके व्रणिताः। व्रणितेषु त्रयः आरक्षकाश्च अन्तर्भवन्तीति सूच्यते। आक्रमणकारी पश्चात् आरक्षकैः गृहीतः। 
    शनिवासरे प्रभाते एकादशवादने आराधनालयम् अतिक्रम्य प्राप्तः अक्रमी आराधकजनान् लक्ष्यीकृत्य  अनवरतं शतघ्नीप्रयोगं कु्वन्नासीत्। सर्वे जूतविश्वासिनः म्रियन्तामिति सः आक्रोशं कृतवानित्यपि आरक्षकैरुक्तम्। 
    शतघ्नीनां स्वायत्तीकरणे किमपि नियन्त्रणम् यू एस् राष्ट्रे नास्तीत्यतः प्रतिवत्सरं ३०,००० जनाः अक्रमिणां शतघ्निप्रयोगेण मृतिमुपगच्छन्ति।