OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 26, 2018

जगन् मोहन रड्डिः कुठाराक्रमणेन व्रणितः, अपराधी गृहीतः।
        विशाखपत्तनम् >   आन्ध्रप्रदेशराज्यस्य  विधानसभायाः विपक्षनेता तथा वै एस् आर् कोण्ग्रस् दलस्य नेता च वै एस् जगन्मोहन् रड्डिः विशाखपत्तनं विमाननिलयस्थे विशिष्टालये कुठाराक्रमणेन व्रणितः। हैदराबादं प्रति गन्तुं प्राप्तं तं विमाननिलयस्थभोजनशालायाः कर्मचारी एव कुक्कुटाहवे उपयुज्यमानं लघुकुठारमुपयुज्य वामस्कन्धं प्रति आक्रमणं कृतवान्। झटित्येव आक्रमणकारी जे श्रीनिवासरावु नामकः सि ऐ एस् एफ् दलैः गृहीतः आरक्षकदलं नीतः च।
        अविभक्तान्ध्रप्रदेशस्य भूतपूर्वमुख्यमन्त्रिणः यश्शरीरस्य वै एस् राजशेखररड्डिनः पुत्रः जगन्मोहनरड्डिः। विमाननिलयस्थे विशिष्टपुरुषाणां विश्रान्तिगृहे उपस्थितस्य तस्य समीपं 'सेल्फी'छायाचित्रनिर्वहणोत्सुकव्याजेन प्राप्तः श्रीनिवासरावः अप्रतीक्षितवेगेन कुठाराक्रमणं कृतवानासीत्। लघुव्रणितः जगन्मोहनः प्रथमशुश्रूषानन्तरं यात्रामनुवर्तितवान्।