OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 30, 2018

सिक्क सूक्ष्माणुः गुजरात् राज्येषु प्रसरति। अहम्मदाबादे अणुसङ्क्रमणं प्रमाणीकृतम्।
       नवदिल्ली> राजस्थाने भीतिं उत्पाद्य अनन्तरं सिका सूक्ष्माणुः गुजरात् राज्येऽपि प्रसरति। अहम्मदाबादे एका स्त्री सूक्ष्माणुसङ्क्रमिता अस्ति। राज्यसर्वकारेण रोगाणुप्रतिरोधप्रवर्तनानि समारब्धानि इति स्वास्थ्यविभागाध्यक्षा जयन्तीरविः अवदत्। त्वरित प्रक्रमाय भिषजाम् अनुवैद्यानां संघाः नियुक्ताः। २५० संख्याधिकाः गर्भिण्यः परिपालिताः। 
        गुर्जरस्य समीपवर्तिराज्यात् राजस्थानात् आसीत् प्रथमतया सिकारोगाणुव्यापनस्य आवेदनम्। राष्ट्रे प्रप्रथमरोगाणुव्यापनं २०१७ तमे गुर्जरदेशे  आवेदितम् आसीत्I