OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 1, 2018

पाकिस्थान् भीकरताम् अभिवर्धयतीति भारतविदेशकार्यमन्त्रिणी। 
  न्यूयोर्क्  >  ऐक्यराष्ट्रसभायाः ७३तमे सार्वत्रिकसम्मेलने   पाकिस्थानं रूक्षतया विरुध्य भारतस्य विदेशकार्यमन्त्रिणी सुषमास्वराजः। पाकिस्थानराष्ट्रं लोके भीकरवादम् अभिवर्धयतीति सुषमास्वराजेन विमृष्टम्। अद्यतनकाले भुवनेन सम्मुखीक्रियमाणम् अभिग्रहद्वयं भवति पर्यावरणव्यतियानं तथा आतङ्कवादं च। भारतस्य अवस्थायां प्रातिवेशिकराष्ट्रात् जायमानं भीकरप्रवर्तनमेव महान् शापः। न केवलं भीकरप्रवर्तनं कर्तुं किन्तु तदाच्छादयितुं च पाकिस्थानस्य वैदग्ध्यमस्तीति सुषमा आक्षिपत्। भीकरप्रवर्तनमधिकृत्य पाकिस्थानेन सह बहुवारं चर्चा आरब्धा  अपि पाकिस्थानस्य व्यवहारदोषेण मध्ये स्थगिता जाता। भारतेन कृतानां मानवाधिकारलङ्घनानां प्रमाणमिति रूपेण पाक् प्रतिनिधिना पूर्वं प्रदर्शितानि चित्राणि राष्ट्रान्तरात् सङ्कलितानीति परं स्पष्टीकृतम् - सुषमया प्रोक्तम्। 
   * पुनःसंघाटनम् आवश्यकम्* - परिवर्तनान्यधिकृत्य चर्चां कर्तुम् उद्दिष्टा अन्ताराष्ट्रीयवेदिका भवति यू एन् संस्था इति स्मारितवती भारतविदेशमन्त्रिणी तदर्थं तदनुगुणं पुनःसंघाटनम् ऐक्यराष्ट्रसभया अपेक्षितमस्तीति उक्तवती। सभायाः यथायुक्तं प्रवर्तनं नास्ति चेत् भुवनस्य बहुस्वरता विनष्टा भविष्यतीत्यपि सुषमा स्वराजेण सूचितम्।