OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 2, 2018

सर्वतोमुखविकसनं महात्मागान्धिने श्रद्धाञ्जलिः -  प्रधानमन्त्री
   *अद्य गान्धिजयन्ती।
   नवदिल्ली  >  राष्ट्रस्य सर्वतोमुखं विकसनं भविष्यति महात्मागान्धिनः कृते तस्य पञ्चाशदुत्तरशततमजन्मसंवत्सरवेलायां क्रियमाणा श्रद्धाञ्जलिः इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी प्रास्तौत्। 'मन्  की बात्'  नामिकायां प्रतिमासिकीयां आकाशवाणी प्रभाषणपरम्परायां भाषमाणः आसन् प्रधानमन्त्री।
      ग्रामैरेव भारतस्य अभिवृद्धिरिति महात्मागान्धिना सदा मन्त्रितमासीत्। अत एव ग्रामस्वराज् इत्याशयस्य प्रचारकः आसीदयम्। देशस्य नेतृजनान् प्रति तस्य उपदेश एवमासीत् - "यः विकसनकार्यक्रमः आरभ्यते तदा राष्ट्रस्य अतीवदुर्बलस्य , दरिद्रस्य मुखं भवतां मनसि उदयेत। अनेन कार्यक्रमेण तस्मै दरिद्राय किमपि प्रयोजनमस्तीति चिन्तयन्तु। अस्ति चेत् भवता आविष्कृतो$यं कार्यक्रमः श्रेष्ठ भवति"। गान्धिनः इदं मन्त्रम् अद्यापि नितरां प्रसक्तमस्ति - प्रधानमन्त्री अवदत्।