OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 3, 2018

सूक्ष्माष्णुबाधितः 'पोलोयो' औषधबिन्धवः  शिशुभ्यः अददुः।
  नवदिल्ली> तेलङ्कान महाराष्ट्र उत्तरप्रदेश-राज्येषु शिशुभ्यः प्रदत्ते औषधे रोगाणुबाधा प्रमाणीकृता। पोलियोरोगस्य प्रतिरोध औषधे एव 'टैप् २'  रोगाणुः विलीनः  इति स्वास्थ्य मन्त्रालयेन उच्चते। उत्तरप्रदेशस्थ गासियाबाद् केन्द्रीकृत्य प्रवर्त्यमानया बयोमेङ्(Biomed Pvt Ltd) इति औषधसंस्थया निर्मितम् औषधं भवति इदम्। राज्यत्रयेषु अणुबाधित औषधसेवितेषु शिशुत्सु निरीक्षणं कर्तुं मन्त्रालयेन आदिष्टम्। इयं घटनाम् अधिकृय अन्वेषणं कर्तुं मन्त्रालयेन विशिषसमितिः  आयोजिता।  ५०,००० औषधकूप्यः प्रत्यभिज्ञाताः। १००००० कूपीमितानि औषधानि प्रत्यभिज्ञातुं यत्नः प्रचलति। घटनानुबन्धतया बयोमेड् संस्थायाः स्वामी अरक्षकैः ग्रहीतः। भूमण्डलात्   'टैप् २' इति अणुव्यापनं सम्पूर्णतया निर्मार्जितम् इति २०१६ तमे प्रख्यापितम् आसीत्।