OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 30, 2018

राज्यस्तरीयः कायिकोत्सवः समाप्तः ; एरणाकुलं जनपदं प्रथमस्थाने। 
विद्यालयीयकिरीटः कोतमङ्गलं सेन्ट् जोर्ज् उच्चतरविद्यालयाय। 
          अनन्तपुरी   >  गतदिनत्रये अनन्तपुर्यां सम्पन्ने ६२ तमे विद्यालयीयक्रीडापटूनां वीरताप्रदर्शने एरणाकुलं जनपदेन वीरत्वपदं  प्राप्तम्! ३० सुवर्णानि , २६ रजतानि, २० पित्तलानि च सम्प्राप्य २५३ अङ्कानि एरणाकुलं जनपदेन प्राप्तानि। १९६ अङ्कैः  पालक्काट् जनपदेन द्वितीयस्थानं प्राप्तम्।
     विद्यालयेषु एरणाकुलं जनपदस्थः कोतमङ्गलं सेन्ट् जोर्ज् उच्चतरविद्यालयः ८१ अङ्कानि प्राप्य वीरताकिरीटं स्वायत्तीकृतम्। संवत्सरत्रयस्य भङ्गं समाप्य एव सेन्ट् जोर्ज् विद्यालयः किरीटं प्रापयत्।