OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 2, 2018

पाक् हेलिकोप्टर् यानम् भारतव्योमसीमाम् उल्लङ्घयत्। 
-रम्या पि यु        
      श्रीनगरम् > पाक् हेलिकोप्टर् यानम्    भारतव्योमसीमाम् उल्लङ्घयत्। जम्मु काश्मीरस्य पूञ्च् प्रविश्यायां घटनेयम् प्रवृत्ता। भारतसैन्यं तत् यानम् गोलिकास्त्रप्रघट्टनेन अधःपातयितुम् महान्तं श्रमम् अकरोत् इति राष्ट्रियमाध्यमानि आवेदयन्। व्योमसीमां लङघयतः यानस्य दृश्यानि ए एन् ऐ वार्तासंस्थया प्रेषितानि। घटनाम् अनुबन्ध्य अधिकारिणः अन्वेषणम् आरब्धवन्तः। भारतस्य व्योमप्रतिरोधसंविधानं ज्ञातुं  व्योमसीमा लङ्घिता चेत् प्रत्याक्रमणाय कियान् समयः स्वीकरणीयः भविष्यति इति ज्ञातुम् पाक् व्योमयानानि एवं डयनशीलाः इति माध्यमानि आवेदयन्। किन्तु सुव्यक्ततया व्योमसीमालङ्घनमेवेति भाति।