OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 26, 2018

चीनस्य 'हेलिकोप्टर्' भारतसीमा अलङ्घयत् इति आवेदनम्।
        नवदिल्ली> व्योमपरिधिमुल्लङ्घ्य चीनस्य द्वे उदग्रयाने भारतखण्डं प्रापतुः। लडाक्कस्थे ड्रिग् प्रदेशे एव घटनेयं जता इति ज्ञातम्। सेप्तम्बर् मासस्य सप्तविंशति दिनाङ्के लडाक् टिबत् सीमायां दशनिमेषपर्यन्तं व्याेमनिरीक्षणं कृत्वा एव प्रतिनिवृत्तम्। पाकिस्थानस्य उदग्रयानस्य (Helicopter) अधिनिवेशनात् दिनत्रयात् पूर्वम् आसीत् चीनेनकृतं  व्योमसीमा लङ्‌घनम्।
     पाक्अधीनकाश्मीरस्य प्रधानमन्त्री राजा फरूख् हैदरखानः तदा उदग्रयाने आसीत्‌। अनवधानतया आसीत्  सीमा लङ्घनम् इत्यासीत् पाकिस्थानस्य स्वयमुक्तिः। भारत समुद्रेऽपि चीनस्य अन्तर्वाहिन्यः सान्निध्यमासीत् पूर्वस्मिन् मासे इत्यपि आवेदनमस्ति।