OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 27, 2018

दिल्ल्यां हिमधूमेन श्वासक्लेशः- पूर्वसूचना भवति पर्यावरणस्य।
        नवदिल्ली> विषधूमेन श्वासक्लेशमनुभवति दिल्लीनगरम्। विश्वस्वास्थ्यसंघटनस्य आवेदनानुसारं  मालिन्याधिक्येन क्लेशमनुभूतमानेषु विश्वनगरेषु प्रथमं स्थानं भवति नवदिल्ली। अनेन कारणेन विश्ववार्तामण्डले दिल्लीनगरस्य कुप्रसिद्धिः अस्ति। नगरमिदं विषधूमपटलात् मुक्तं कर्तुं सर्वकारेण बहुविधप्रक्रमाः स्वीकृताः। केन्द्र सर्वकारः, राज्यसर्वकारः राष्ट्रियहरितायोगः, मानवाधिकारायोगः, उच्चन्यायालयः , सर्वोच्च न्यायालयाः च  समस्यापरिहाराय प्रयतितवन्तः। किन्तु निष्प्रयोजनमासीत् ।
पर्यावरणस्य विषधूमः हिमकणाः च मिलित्वा एव जायते हिमधूमः।