OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 5, 2020

 आगम्यमाने संवत्सरे जुलाई मासे कोविड् प्रत्यौषधं प्रदास्यामहे - मन्त्री हर्षवर्धनः।

 


 नवदिल्ली> २०२१ जुलाईमासे २५ कोटि जनानां कृते कोविड् प्रत्यौषधं प्रदातुं शक्यते इति भारतस्य स्वास्थ्यमन्त्रिणा डो. हर्षवर्धनेन उक्तम्। ४०तः५० कोटि प्रत्यौषधमात्रां क्रेतुं सर्वकारेण उद्दिश्यते इति तेन उक्तम्। 'सण्डे संवाद' इति सामजिकमाध्यमद्वारा प्रचाल्यमाने रविवासरीय-कार्यक्रमे  भाषमाणः आसीत् एषः।  

     प्रतिरोधप्रत्यौषध-वितरणाय नीति आयोगस्य प्रतिनिधी वी.के पोल् इत्यस्य नेतृत्वे समायोजितायाः समित्याः प्रवर्तनानि समारब्धानि।  केन्द्रसर्वकारेण औषधं समाहृत्य औषधवितरणं साक्षात्करिष्यते इत्यपि तेनोक्तम्।